SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ॥११॥ भावश्यक-हारिभद्रीयवृत्तिः याऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूतो भवन्ति, ततश्चानेन निष्प्रदेशजीवादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ?-करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्तेरिति । य: किं करोतीत्याह-'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्यत इति ग्रहणं, ग्रहणमिति “कृत्यल्युटो बहुलं" (पा०३-३-११३) इतिवचनाकर्मकारक, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह,सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?भाष्यत इति भाषा तां भाषां। आह-'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात् , इह भाष्यमाणैव भाषोच्यते, न पूर्व नापि पश्चाद् , इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ॥८॥ ____ यदुक्तं-'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आह--- ओरालियवेउब्बियाहारो गिण्हई मुयइ भासं । सचं मोसं सच्चामोसं च असञ्चमोसं च ॥९॥ अभेदषष्ठया तत्रस्थाः प्रदेशा जीवाभिन्नाः, एतदेव च जीवस्येन्युच्चारणे फलं, अन्यथा 'जीवप्रदेशा' इत्यनेन संबद्धार्थावगमात्. २ नैयायिकवैशेषिकादयः, तन्मते हि नित्यं निरवयवमेव, सावयवरवे हि कार्यस्वापरया अनित्यत्वापत्तिः, घटादीनामिव । ३ कर चरणादयो हि सावयवा इस्युभयसंमतं, आत्मा च तैः प्रत्यवयवमेव संयुज्यते, संयोगश्च स्यात्तदा यदि स्यादारमा सावयवः, प्रतिप्रदेशं च संयोगवान् , ततो निष्प्रदेशे करचरणाद्यवयवसंयोगो न स्यादात्मनः, संसर्गे हि निष्प्रदेशस्यात्मनः करादिभिः, करादीनामपि निष्प्रदेशकात्मनः प्रत्यवयवेन संसर्गात्स्वरूपापस्या निष्प्रदेशत्वेनैकत्वापत्तिः. ४ भेदे सावयवस्वास्पतिज्ञातहानिः, अभेदे भिन्नावयवसंयोगानुपपत्तेस्तदेकतरेण सात्मकता न सर्वरित्यनिष्टेः. ५ जीवप्रदेशः. ६ भाषणपरिणामे. ७ निस्क्रिय आत्मनि. __व्याख्या-तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुडलोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति' आदत्ते 'मुञ्चति' निसृजति च, भाष्यत इति भाषा तां भाषां,शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः। किंविशिष्टामित्याह-सतां हितासत्या,सन्तो मुनयस्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता तत्प्रत्यायनफला जनपदसत्यादिभेदा सत्येति, तां सत्यां, सत्याया विपरीतरूपा क्रोधाश्रितादिभेदा मृपेति तां, तथा तदुभयस्वभावा वस्त्वेकदेशप्रत्यायनफला उत्पन्न मिश्रादिभेदा सत्यामृषेति तां, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाssमन्त्रण्यादिभदा असत्यामृषात ताच,चशब्दः समुच्चयार्थः,आसाच स्वरूपमुदाहरणयुक्ताना सूत्रांदवसयमिति गाथार्थः ॥९॥ आह–'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्यामोतीति, उच्यते, १ प्रज्ञापनायाः, यतस्तत्र भाषालक्षणं पदमेकादशं "जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुब ६ सच्चे य । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसचे १० य॥१॥ कोहे १माणे २ माया ३ लोभे ४ पेजे ५ तहेव दोसे ।य। हासे ७ भए ८ य खाइय ९ उवघाइयणिस्सिया १० दस ॥२॥ आमंतणी 1 आणवणी २ जायणी ३ तह पुच्छणी ४ य पण्णवणी ५ । पच्चक्खाणी ६ भासा, भासा इच्छाणुलोमा . य ॥ ३ ॥ अणभिग्गहिया. भासा ८, भासा भ अभिग्गइंमि ९ बोया । संसयकरणी भासा १० वोगड ११ अब्बोगडा १२ चेव ॥ ४ ॥ इति सत्यासत्यासत्यामृषास्वरूपं, सत्यमृषा तु 'उप्पण्णमीसिया १ विम्यमीसिया २ उप्पण्णविगयमीसिआ ३ जीवमिस्सिया ४ अजीवमिस्सिआ ५ जीवाजीवमिस्सिआ ६ अतमिस्सिआ परित्तमिस्सिआ ८ अद्धामिस्पिआ ९ अद्धामीसिआ १०. समस्तमेव लोकमिति, आह-यद्येवं 'कइ०' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः प्रेतिपाद्यते, आह-द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं, मन्दपरिणामत्वात्तव्याणामित्युक्तं, तत्र किं' परतो रस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तैर्येण तद्वासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केपाश्चित् कृत्स्नलोकव्याप्तेः, आह-यधे -- कइहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो। लोगस्स य कइभागे, कइभागो होइ भासाए ॥१०॥ व्याख्या-'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः ?,॥१०॥ अत्रोच्यतेचउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य चरमंते, चरमंतो होइ भासाए ॥११॥ व्याख्या-चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ?-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति, स ह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च , पूर्वसूत्रे 'ओरालियवेउहिये' त्यादिप्रतिपादनात् ,. २ 'भासासमसेढीओ' इत्यादौ श्रोत्रेन्द्रियादीनां द्वादशयोजनादिरूपस्य विषयस्य प्रतिपादनात् वृत्तिकृता. ३ मन्दपरिणामलक्षणं विशेषहेतुं श्रुत्वा द्रव्यगतौ प्रश्नः . द्वादशसु योजनेषु. ५ विषयकथनात् शब्दद्व्याणां वासकत्वात् वास्यैः पूर्णत्वाच लोकस्येति वा. ६ श्रोत्रेन्द्रियामाह्मत्वेऽनुमानज्ञापनाय केपाचिदित्यादि. ७ शब्दद्रव्याणां केषाञ्चिल्लोकव्याप्तिप्रतिपत्ती. ८ न तु पञ्चास्तिकायरूपो व्यक्षेत्रादिरूपो वा. ९ परमाणोः सप्तप्रदेशा यथा स्पर्शना तथा नात्रेत्यनर्थान्तरदर्शनं. * सर्वयैव १-३-५-६. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy