SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥ १० ॥ मावश्यक हारिभद्रीयवृत्तिः ख्यापनार्थ, शृणोति 'नियमात्' नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः ? - तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः ॥ ६ ॥ केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गे वा कथं वेत्येतदाशङ्कय गुरुराह गिves य काइएणं, निस्सरह तह बाइएण जोएणं । एगन्तरं च गिव्हर, णिसिरह एगंतरं वेव ॥ ७ ॥ व्याख्या - तत्र कायेन निर्वृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्थान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति चशब्दस्त्येवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिकेनैव, निसृजत्युत्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक् वाचा निर्वृतो वाचिकस्तेन वाचिकेन योगेन । कथं गृह्णाति निसृजतीति वा ? किमनुसमर्थ उस अन्यथेत्याशङ्कासंभवे सति शिष्यानुप्रहार्थमाह-- एकान्तरमेव गृह्णाति, निस्सृजति एकान्तरं चैव, अयमत्र भावार्थ:- प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सन्निति, एवमेकैकस्मात्समयाद् एकैक एव एकान्तरोऽनन्तर समय एवेत्यर्थः । अयं गाथासमुदायार्थः । अत्र कश्चिदाह - ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन ?, को " 1 'ते लुग्बा' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवप्रयोगेण सम्पूर्णपदोपस्थित्वा तदवबोधः, एवं च समस्तस्थल पुषार्थ न तु व्यवस्थ. वाऽयं वाग्योग इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति ?, यदि पूर्वो विकल्पः, स खल्ब युक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्र परिणामरूपत्वात्, रसादिवत्, योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापार एवेति कृत्वा कायिकेनैव निसृजतीत्यापनं, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात् इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति ये शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थं त्रिधा विभक्त इत्यतोऽदोषः । तथा 'एकान्तरं च गृह्णाति, निसृजत्येकान्तरं 'चैत्र' इत्यत्र केचिदेकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च यत उक्तं - " अणुसमयमविरहियं निरन्तरं गिण्हइ" ति । आह-यत्पुनरिदमुकं "संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं णिसरती "त्यादि, तत्कथं नीयेते ?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवति - यथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीर्ति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तय स्वतन्त्रत्वात्, निसर्गस्य च ग्रहणपरतन्त्रत्वात् यतो नागृहीतं निसृ " १ शब्दसंहतिरूपा भाषा. २ इतिहेतोः ३ व्यापारविशेषेण. ४ समयस्य सूक्ष्मतमत्वेन आह-सूत्रेत्यादि ५ व्याख्यायत इत्यर्थः भवव्याख्यानेन विरुद्धतमस्वात्. ६ पूर्वमगृहीतत्वात् गृहीतानां च द्वितीयसमये निसर्गात् ७ गृहीतानां विना निसर्ग ग्रहणाभावात् सान्तरता यथा तथा निसर्जने एक ग्रहणाद्वहणस्यापि सान्तरतेत्यर्थः ८ ग्रहणस्य-पूर्वसमयेऽनिसर्गेऽपि ग्रहणादित्यर्थः, निसर्जनं तु गृहीतानामेवेति तस्य परतन्त्रत्वं. ज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा एकेन समयेन गृह्णाति एकेन निसृजति किमुक्तं भवति ? - प्रहण समयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्धगम्यौ इत्यतोऽविरोध इति । आह— ग्रहण निसर्गप्रयत्लौ आत्मनः परस्परविरोधिनौ एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोग विभागक्रियावच्च क्रियाद्वयस्वभावोपपत्तेरिति गाथार्थः ॥ ७ ॥ यदुक्तं-'गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारक तेज सकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाहतिविहंमि सरीरंमि, जीवपएसा हवन्ति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ ८ ॥ व्याख्या– 'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं ' इत्यादौ षष्ठया भेदेऽपि दर्शनात् मा भूदू भिन्नप्रदेशत १ निसर्गात्. २ समयेन. ३ प्रागिति ४ अर्थापत्तितो ज्ञेयौ, अन्यथाऽऽद्यान्न्यसमयग्रहणनिसर्गावधारणानुपपतेः ५ मनोवाक्काययो गानामात्मव्यापाररूपस्वात्, आत्मन कश्वात्, एकसमये परस्परविरुद्ध क्रियाकरणानुपपत्तिरित्यर्थः. ६ यावदन्तिमं गुणस्थानं भाग्येव बन्धः कर्मणां तद्विपाकवे दत्तश्च निसर्गः तेषामनुसमयं आगमोपपत्रे च तस्मिन्नविरोधो यथा तथाऽत्रापीत्यर्थः. * प्रदर्शनात्. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy