________________
॥ १९०॥
मावश्यक हारिभद्रीयवृत्तिः
वत्थूओ संकमणं होइ अवत्थू गए समभिरूढे । वंजणमत्थतदुभयं एवंभूओ विसेसे ॥ ७५८ ॥ व्याख्या ——-वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो- घटाख्यस्य सङ्क्रमणम्-अन्यत्र कुटाख्यादौ गमनं किम् ? - भवति अवस्तु - असदित्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन् इयमत्र भावना - घटः कुटः कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनात्कुटः कौटिल्ययोगात्कुट, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः, कुस्थित पूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र सङ्का न्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । ‘वञ्जण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं - शब्दः अर्थस्तु तद्गोचरः, तच्च तदुभयं च तदुभयं - शब्दार्थलक्षणम् 'एवम्भूतो' यथाभूतो नयः विशेषयति, इदमत्र हृदयम् - शब्दमर्थेन विशेषयत्यर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चावाचकत्वमिति गाथार्थः ॥ एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तत्प्रभेदसयां प्रदर्शयन्नाहएक्केको य सयविहो सत्त णयसया हवंति एमेव । अण्णोऽवि य आएसो पंचेव सया नयाणं तु ।। ७५९ ।।
व्याख्या-अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात् चत्वारि द्वे वा शते, तत्र पट् शतानि नैगमस्य सङ्ग्रह व्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सव्यवहारऋजुसूत्र शब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः ॥
एएहिं दिट्टिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणन्वगमो अहिगारो तिहि उ ओसन्नं ॥ ७६० ॥
व्याख्या– 'एभिः ' नैगमादिभिर्नयैः सप्रभेदैर्दृष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च आह-वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात् तद्व्यतिरेकेणापि वस्तुसम्भवात् 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु १, श्रोत्रपेक्षं कार्या, तत्राप्यधिकार स्त्रिभिराद्यैः 'उत्सन्नं' प्रायस इति गाथार्थः ॥ आह-' इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिदयानुज्ञा किमर्थमिति, उच्यते
न्धि एहि त्रिणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं गए णयविसारओ बूया ॥ ७६१ ।।
व्याख्या -- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्य विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिं, तुशब्दः पुनःशब्दार्थे, किम् ? - नयान्नयविशा - दो- गुरुर्ब्रयादिति गाथार्थः ॥ उक्तं नयद्वारम् अधुना समवतारद्वारमुध्यते-केतेषां नयानां समवतारः ?, क वाऽनवतार इति संशयापोहायाह
मृदनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपुहुप्ते समोयारो नत्थि पुहुरो समोयारो ॥ ७६२ ।।
व्याख्या - मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिकं, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनया: तेऽस्मिन्विद्यन्ते 'अन इनिठना' ( पा० ५-२-११५) विति मूढनयिकं श्रुतं 'कालिकं तु' कालिकमिति काले- प्रथमचरमपौरुषीद्वये पठ्यत इति कालिकं, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आहक पुनरमीषां समवतारः ?, 'अपुहुत्ते समोतारो' अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्त्तनमित्यर्थः तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, 'नत्थि पुहुत्ते समोतारों' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवतार्य्यन्त इति गाथार्थः ॥ आह-कियन्तं कालमपृथक्त्वमासीत् १, कुतो वा ममारभ्य पृथक्त्वं जातमिति, उच्यते,
.
जाति अज्जवइरा अपुहुप्तं कालियाणुओगस्स । तेणारेण पुहुप्तं कालियसुअ दिट्टिवाए य ॥ ७६३ ॥ व्याख्या - यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात, कालिकग्रहणं प्राधान्यख्यापनार्थम्, अन्यथा सर्वानुयोगस्यैवा पृथक्त्वमासीदिति । तत आरतः पृथक्त्वं कालिक श्रुते दृष्टिवादे वेति गाथार्थः ॥ अथ क एते आर्य्यवैरा इति, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह
Jain Education International
For Private Personal Use Only
www.jainelibrary.org