SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ व्यावश्यक-हारिभद्रीयवृत्तिः दयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ॥ अवयवार्थे तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह च गेहिं माणेहिं मिणइत्ती णेगमस्स गेरुसी । सेसाणंपिणयाणं लक्खणमिणमो सुणेह वोच्छं ॥ ७५५ ॥ व्याख्या--न एकं नैकं-प्रभूतानीत्यर्थः, नैकैर्मानैः - महासत्तासामान्य विशेषज्ञानैर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः - पदार्थपरिच्छेदाः, तत्र सर्वे सदित्येवमनुगताकारावबोधहेतुभूतां महासत्ता मिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादिव्यावृत्तावबोध हेतुभूतं च विशेष परमाणुमिति । आह-इत्थं तर्ह्ययं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवं, सामान्य विशेष वस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार : - "जं सामण्णविसेसे परोप्परं वत्थुतोय सो भिण्णे । मन्नइ अश्चंतमतो मिच्छद्दिट्ठी कणातोष ॥ १ ॥ दोहिवि णएहि नीतं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसपहाणत्तणेण अन्नोन्ननिरवेक्खा || २ ||” अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमकसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाधार्थः ॥ १ यत् सामान्यविशेषौ परस्परं वस्तुतश्च स भिनौ । मभ्यतेऽत्यन्तमतो मिथ्यादृष्टिः कणाद इव ॥ १ ॥ द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ ॥ २ ॥ ॥ १८९॥ संगहियपिंडियत्थं संगहवयणं समासओ बेंति । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ॥ ७५६ ॥ " व्याख्या - आभिमुख्येन गृहीतः - उपात्तः सङ्गृहीतः पिण्डितः - एकजातिमापन्नः अर्थो - विषयो यस्य तत्सङ्गृहीतपि ण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षेपतः, ब्रुवते तीर्थकरगणधरा इति, एतदुक्तं भवति - सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते -विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । ' वच्चति' इत्यादि व्रजति-गच्छति नि:आधिक्येन चयनं चयः अधिकश्चयो निश्चयः - सामान्यं विगतो निश्चयो विनिश्चयः - निःसामान्यभावः तदर्थं -तनिमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क्व १ - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु, अयं हि सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं, तस्य व्यवहारातत्वात् तथा च- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् १, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः - आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकारः - " अमरादि पञ्चवण्णादि निच्छए जंमि वा जणवयस्स । अत्थे विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो ॥ १ ॥ बहुतरओत्ति य तं चिय गमेइ १ भ्रमरादीन् पञ्चवर्णादीन् नेच्छति यस्मिन् वा जनपदस्य । अर्थे विनिश्वयः स विनिश्चयार्थ इति यो ग्राह्यः ॥ १ ॥ बहुतर इति च तमेव गमनसि sa से मुइ । संववहारपरतया ववहारो लोयमिच्छतो ॥ २ ॥" इत्यादि, उक्तो व्यवहार इति गाथार्थः ॥ पचप्पण्णग्गाही उज्जुसुओ नयविही मुणेयव्वो । इच्छइ विसेसियतरं पक्षुप्पण्णं णओ सहो ॥ ७५७ ॥ व्याख्या - साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्त्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्नं-भिन्नव्यक्तिस्वामिकमित्यर्थः, तङ्ग्रहीतुं शीलमस्येति प्रयुत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु - वर्त्तमानमतीतानागतवऋपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति - गमयतीति ऋजुसूत्रः, यद्वा ऋजु - वक्रविपर्ययादभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्, अयं हि नयः वर्त्तमानं स्वलिङ्गवचननामादिभिन्नमध्येकं वस्तु प्रतिपद्यते, शेषमत्रस्त्विति, तथाहि अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अदृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खपुष्पवत्, तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तु तटः तटी तटमिति वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति' प्रतिपद्यते ' विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं वर्त्तमानं नयः, कः ?, 'शप आक्रोशे' शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहाद भेदोपचारान्नयोऽपि शब्द एव, तथाहि--अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ॥ १ सतोऽपि शेषान् मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy