________________
मावश्यक-हारिभद्रीयवृत्ति
॥१८५॥ शामिक वर्तमानैः 'तत्' सामायिकमन्यच्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते । तत्र गौतमस्वामिना निषधात्रयेण चतुदर्श पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-उप्पण्णे इ वा विगमे इ वा धुवे इवा, एता एव तिम्रो निषधाः, आसामेव सकाशाद्गणभृताम् 'उत्पादव्ययधौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भगवमणुण्णं करेइ, सको य दिवं वइरमयं थालं दिवचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उहित्ता पडिपुण्णं मुहिं केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एकारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउजगीयसदं निरंभंति, ताहे सामी पुर्व तित्थं गोयमसामिस्स दबेहिं गुणेहिं पज्जवेहिं अणुजाणामित्ति भणति चुण्णाणि य से सीसे छुहइ, ततो देवावि चुण्णवासं पुप्फवासं च उचरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तं गणहरेहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । (ग्रन्थानम् ७०००) साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽहदव्वामिलावर्षिधे वेए धम्मस्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥७३६ ॥
भगवाननुज्ञां करोति, शका विज्यं बज्ररवमयं स्थाळं दिव्यचूर्णं त्वा खामिनमुपागच्छति, सदा स्वामी सिंहासमादुत्वाय प्रतिपूर्णा मुष्टिं गन्धानां ग्रहाति, तदा गौतमखामिप्रमुखा एकादशापि गणधरा ईपदवनताः परिपाब्या तिम्ति, तदा देवा भातोचगीता मिलमन्ति, सदा खामी पूर्व तीर्थ गौतमवामिने इम्पैर्गुणः पर्यवैरनुजानामीति भणति पूर्णानि च तस्य शीर्षे क्षिपति, ततो देवा अपि पूर्णवती पुष्पवर्ग परिवन्ति, गणं च सुधर्मस्वामिनं पुरि स्थापयित्वाऽनुजानाति । एवं सामायिकस्यापि माँ भगवतो निर्गतः, सूत्रं गणधरेभ्यो निर्गतम् । * मणसीकरेइमा
व्याख्या-'दव'त्ति द्रव्यपुरुषः, स चागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तैकभविकवद्धायुष्काभिमुखनामगोत्रभेदभिन्नो द्रष्टव्यः, अथवा व्यतिरिक्तो द्विधा-मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः-शब्दः, तत्राभिलापपुरुषः पुलिङ्गाभिधानमात्रं घटः पट इति वा, चिह्नपुरुषस्त्वपुरुषोऽपिपुरुषचिह्नोपलक्षितो यथा नपुंसकं श्मश्रुचिहमित्यादि, तथा त्रिध्वपि लिङ्गेषु स्त्रीपुनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुपो मम्मणनिधिपालवत् , भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्तिवत्, 'भावे य' त्ति भावपुरुपश्च, चशब्दो नामाधनुक्तभेदसमुच्चयार्थः, 'भावपुरिसो उ जीवो भावे' ति पू:-शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तु जीवः, 'भावि' ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थः, अथवा 'भावे' त्ति भावनिर्गमप्ररूपणायामधिकृतायां, किम् ?-'पगयं तु भावेणं' ति 'प्रकृतम्' उपयोगस्तु भावेनेत्युपलक्षणाद् भावपुरुषेण-शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दादिपुरुषेण च गणधरेणेति, एतदुक्तं भवति-अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः ॥ गतं पुरुषद्वारं, साम्प्रतं कारणद्वारावयवार्थव्याचिख्यासयाऽऽहणिक्खेवो कारणंमी चउविहो दुविहु होइ व्वंमि । तद्दव्यमण्णव्वे अहवावि णिमित्तनेमिसी ॥७३७॥दारं। ___ अस्या गमनिका-निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणं, कार्य निर्वतयतीति हृदयं, तस्मिन् कारणे-कारण
* पढः क्कीयो नपुंसकमिति हैम्युक्तः नपुंस्त्वम्. विषयः 'चतुर्विधः' चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आहद्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगृह्यते, तदेव द्रव्यकारणद्वैविध्यं दर्शयति-तद्रव्य मिति तस्यैव पटादेव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति । अथवाऽन्यथा द्विविधत्वं-निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनानातेति, तां वक्ष्यति । तत्र पटत्य निमित्तं तन्तवस्त एव कारणं, तव्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टादिव्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वेमादिनिमित्तं, ततो निमित्तम्यदं नैमित्तिकमिति गाथार्थः॥ समवाइ असमबाई छव्विह कत्ता य कम्म करणं च । तत्तो य संपयाणापयाण तह संनिहाणे य ॥ ७३८ ॥
-समेकीभावे अवोऽपथक्त्वे अय गती, ततश्चैकीभावेनापृथग्गमनं समवायः-संश्लेषः स येषां विद्यते ते सम वायिनः-तन्तवो यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं-तन्तुसंयोगाः, कारणद्रव्यान्तरधर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति । आह-अर्थाभदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा पविध कारणम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, करोतीति कर्त्तरि व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारणं, कथं पवि.
*करण कम्मं चेति व्याख्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org