SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ बावश्यक-हारिभद्रीयत्तिः धमित्याह-कर्ता च कारणं, तस्य कार्ये स्वातन्त्र्येणोपयोगात् , तमन्तरेण विवक्षितकार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्ती कुलालः कारणं, तथा करणं च-मृत्पिण्डादि करणं, तस्य साधकतमत्वात्, तथा कर्म च कारणं, क्रियतेनिर्वय॑ते यत्तत्कर्म-कार्यम् ,आह-तत्कथमलग्धात्मलाभं तदा कारणमिति?, अत्रोच्यते, कार्यनिर्वर्त्तनक्रियाविषयत्वात्तस्योपचारात्कारणता, उक्तं च-"निर्वत्यै वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । तत् दृष्टादृष्टसंस्कारं, कर्म कर्तुर्यदीप्सितम् ॥१॥” इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात् , सम्यक् सत्कृत्य वा प्रयलेन दानं सम्प्रदानम् , अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद् , 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सभिधीयते यत्र कार्य तत्सभिधानम्-अधिकरणं, तश्च घटस्य चक्रं, तस्यापि भूः, तस्या अप्याकाशम् , आकाशस्य स्वधिकरणं नास्ति, स्वरूपप्रतिष्ठितत्वात् , घटस्य चेदं कारणम् , एतदभावे घटानुत्पत्तेरिति गाथार्थः ॥ उक्तं द्रव्यकारणम्, इदानी भावकारणप्रतिपादनायाहविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्यं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥ ७३९ ॥ व्याख्या-भवतीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च' द्विप्रकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्त-शोभनं च, तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविध-द्विभेदं त्रिविधं-त्रिभेदं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्तकारणभेदसमुच्चयार्थ इति गाथार्थः ॥ यदुक्तं-'संसारस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहअस्संजमो य एको अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥७४०॥ __व्याख्या-'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम् , अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञानं-कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावधयोगानिवृत्तिरिति, तथा मिथ्यात्वमज्ञानं चाविरतिश्चैव त्रिविधं तु संसारकारणं, तत्र मिथ्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम्, एवं कषायादिसम्पादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः । उक्तमप्रशस्तं भावकारणम् , अधुना प्रशस्तमुच्यतेहोइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारो पसत्थरणेत्थं ॥ ७४१ ॥ ___ व्याख्या-भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' च संसारकारणम् असंयमादि विपरीतं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकार' प्रस्तावः 'प्रशस्तेन' भावकारणेन 'अत्र' सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्तभावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः । इत्थं कारणद्वारे अधिकार प्रदर्श्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराहतित्थयरो किं कारण भासइ सामाइयं तु अज्झयणं । तित्थयरणामगोतं कम्मं मे वेइयव्वंति ॥७४२ ॥ व्याख्या-तीर्थकरणशीलरतीर्थकरः, तीर्थ पूर्वोक्तं, स 'किंकारणं' किंनिमित्तं भाषते सामायिकं त्वध्ययनं?, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते-'तीर्थकरनामगोत्रं' तीर्थकरनामसझं, गोत्रशब्दः सम्ज्ञायां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः॥ तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसक्कइत्ता णं ॥७४३ ॥ व्याख्या-पूर्ववत् ॥ णियमा भणुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ ७४४ ॥ - व्याख्या-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधुना गणभृतामाशङ्काद्वारेण तच्छ्वणकारणं प्रतिपादयन्नाहगोयममाई सामाइयं तु किंकारणं निसामिन्ति। णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ व्याख्या-गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं, किंप्रयोजनमित्यर्थः, सामायिकं 'निशामयन्ति' शृण्वन्ति, अत्रोच्यते-'नाणस्स' त्ति प्राकृतशैल्या चतुर्ध्यर्थे षष्ठी, ततश्च ज्ञानाय-ज्ञानार्थ, तादh चतुर्थी, तेषां हि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy