SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥१८४॥ मावस्यक-हारिभद्रीयवृत्तिः प्रमाणमेव कालः प्रमाणकाला, पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः। द्वारं । इदानी वर्णकालस्वरूपप्रदर्शनायाहपंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो ।सो होइ वण्णकालो वणिज्जह जो व ज कालं ॥७३१॥ व्याख्या-पञ्चानां शुक्लादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, वणिजइ जो व जं कालं'ति वर्णनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वर्णकालः, वर्णप्रधान' कालो वर्णकाल इति गाथार्थः॥ इदानीं भावकाला प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च सादीसपज्जवसिओ चउभंगविभागमावणा एत्थं । ओदइयादीयाणं तं जाणसु भावकालं तु ॥ ७३२॥ व्याख्या-सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् !-औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थः-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र -औदयिकचतुर्भनिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभव्यानां परमभङ्ग इति । उक्तः औदयिका, औपशमिकचतुर्भनिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्यौपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिसपर्यवसान इति । उक्त औपशमिकः, क्षायिकचतुभेनिकायां तु व्यादयः शून्या एव, क्षायिक चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिसपर्यवसाना, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञानदर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भनिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानभूताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभब्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिका, पारिणामिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचर:-पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः । उक्तार्थसहगाथा-बीयं दुतियादीया भंगा वजेत्तु विड्ययं सेसे । भवमिच्छसम्मचरणे दिछीनाणेतराणुभवजिए ॥१॥ इति गाथार्थःएत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो । खेत्तमि कमि काले विभासियं जिणवरिंदेणं ॥७३३ ॥ __ व्याख्या-'अत्र पुनः' अनेकविधकालप्ररूपणायाम् 'अधिकार' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-'दधे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणंती' त्युक्तं, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुध्यत इति !, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाहे सामायिकं भाषितमित्य (औदयिकाचनुक्रमेण ) द्वितीयं द्वितीयादीन् तृतीयादीन् भङ्गान् वर्जयित्वा शेषयोरपि द्वितीयं वर्जयित्वा (३-1-1-1-३ भनाः) भवे मिथ्यात्वे (भम्येऽभव्ये च) (औ०) सम्यक्त्वे(भा.) चरणे (बतरूपे) (क्षायो) दर्शनज्ञानयोः मत्यादौ प्रज्ञाने (भव्ये अभव्ये च) (पा.) मणौ भन्यत्वे जीवत्वे॥१॥ विरोधः । अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निइसे ये त्याधुपो पातनियुक्तिप्रतिषशद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तदजानन् प्रमाणकालस्य चानेकरूपत्वाद्विशेषमजानन् गाथापश्चार्द्धमाह चोदकः-'खेतमि कमि काले विभासियं जिणवरिंदेणं' ? इति गाथार्थः॥चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽह पइसाहमुखएकारसीऍ पुव्वण्हदेसकालंमि । महसेणवणुजाणे अणंतरं परंपर सेसं ॥ ७३४॥ व्याख्या-वैशाखशुद्धैकादश्यां 'पूर्वाह्नदेशकाले' प्रथमपौरुष्यामिति भावार्थः। कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यस्ययेन निर्देशः । महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, 'परम्परं सेसं' ति शेष क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकार:-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुषिं । सामाइयमनेसु य परंपरविणिग्गमो तस्स ॥१॥” इति गाथार्थः ॥ गतं मूलद्वारगाथाद्वयप्रतिबद्धं क्षेत्रद्वारम् , इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातेव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्खेवो छबिहो होइ' त्ति येयं गाथोपन्यस्ता अस्या एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारःखइयंमि षहमाणस्स निग्गयं भयवओ जिणिंदस्स । भावे खओवसमियंमि वहमाणेहिं तं गहियं ॥ ७३५ ॥ व्याख्या-क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोप क्षेत्रं महासेनवनोपलक्षितं यत्र निर्गतं पूर्वम् । सामायिकमन्येषु च परम्परविनिर्गमम्तस्य ॥1॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy