SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥१७३॥ आवश्यक हारिभद्रीयवृत्तिः जिनवचनसाराः साधवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं २, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंस्वरूपः ३, अवश्यकर्त्तव्यैयोगैर्निष्पन्ना आवश्यकी ४, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिकी ५, आप्रच्छनमा पृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ६, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्गियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्त्तुकामेनेति, तथा छन्दना च प्राग्गृही तेनाशनादिना कार्या ८, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता ९, उपपच विधिनाऽऽदेया १०। एवं 'काले' कालविषया सामाचारी भवेद्दशविधा तु । एवं तावत्समासत उक्ताः, साम्प्रतं प्रपश्चतः प्रतिपदमभिधित्सुराह - एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येकं' पृथक् पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः ॥ तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाह जइ अब्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ ॥ ६६८ ।। व्याख्या – 'यदी' त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् 'परम्' अम्यं साधुं ग्लानादौ कारणजाते कुर्यात् वा, 'से' तस्य कर्तुकामस्य 'कश्चिद्' अन्यसाधुः, तत्र कारणजातग्रहणमुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-न कल्पत एत्र वलाभियोग इति गाथार्थः ॥ उक्तगाथावयवार्थप्रतिपादनायैवाह अन्भुवगर्ममि नज्जइ अग्भस्थेउं ण वहह परो उ । अणिमूहियबलविरिएण साहुणा ताव होयव्वं ॥ ६६९ ॥ व्याख्या- 'यद्यभ्यर्थयेत् पर' मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते किमित्याह-अभ्यर्थयितुं 'न वर्त्तते' न युज्यते एव परः किमित्यत एवाह-न निगूहिते बलवीर्ये येनेति समासः, बलं - शारीरं वीर्यम्-अ - आन्तरः शक्तिविशेषः, तावच्छन्दः प्रस्तुतार्थप्रदर्शक एव, अनिगूहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अणिगूहियबलविरण साहुणा जेण होयचं'ति, अस्यायमर्थः - येन कारणेनानिगूहित बलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुं न वर्त्तते पर इति गाथार्थः । आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति, उच्यते, ज हुआ तस्स अणलो कज्जस्स वियाणती ण वा वाणं । गिलाणाइहिं वा हुआ बियावडो कारणेहिं सो ॥ ६७० ॥ व्याख्या – यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम् ? - 'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा भवेद्व्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः ॥ आह च राइणियं वज्जेता इच्छाकारं करेह सेसाणं । एयं मज्झं कां तुन्भे उ करेह इच्छाए ॥ ६७१ ॥ व्याख्या - रत्नानि द्विधा - द्रव्यरत्नानि भावरत्नानि च तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरलानि सम्यग्दर्शनज्ञान चारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाश्च, भावरनैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह- इदं मम कार्यवस्त्रसवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ॥ 'जइ अग्भत्थेज परं कारणजाए'ति एतावन्मूलगाथाया व्याख्यातं साम्प्रतं 'करेज्ज से कोई' त्ति अस्य गाथाऽवयवस्यावयवार्थ प्रतिपादयति, अत्रान्यकरणसम्भवे कारणप्रतिपादनायाह अहवाsवि विणासेंतं अन्नत्थेतं च अण्ण दहूणं । अण्णो कोइ भणेजा तं साहुं णिज़रडीओ ॥ ६७२ ॥ व्याख्या -तत्र ' अहवावि विणासेंतं' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यः - विनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्त मध्यभ्यर्थयन्तं वा अभिलषितकार्य करणाय कश्चन अन्यं साधुं दृष्ट्वा किमित्याह- 'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः ॥ किमित्याह अहयं तुभं एवं करेमि कर्ज तु इच्छकारेणं । तत्थऽवि सो इच्छं से करेइ मज्जायमूलियं ॥ ६७३ ॥ व्याख्या - अहमित्यात्मनिर्देशे युष्माकम् 'इदं' कर्तुमिष्टं कार्य करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि 'स' कारापैकः साधुः 'इच्छं से करेइ'त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याह - मर्यादामूलं, साधूनामियं मर्यादा- न किश्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः ॥ व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारो त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह १०] संभवे कारणं प्रतिपादयचाइ प्र० २ करणं कारखं कारयतीति कारापयति णके व कारापक इति स्यात्, स्वचशब्दमदन्तं वर्णयतिः पूज्यैः कचित्रानोऽप्यदन्तस्य णिति वृद्धेरिष्टत्वात्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy