SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ मावश्यक-हारिभद्रीयवृत्तिः व्याख्या-चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा घेतनस्याचेतनस्य च द्रव्यस्य स्थान-स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात् , अथवा 'द्रव्यं तु तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः । चेतनाचेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाहमह सिद्धा भवियाया अभवियपोग्गल अणागयडाय।तीयड तिनि काया जीवाजीवडिई चउहा ॥१६॥दारं॥ ___ व्याख्या-'गति'त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध'त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साधपर्यवसानाः 'भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाघपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल'त्ति पूरणगलनधर्माणः पुद्रला, ते हि पुनलवेन सादिसपर्यवसाना: 'अणागयद्धति अनागताद्धा-अनागतकालः, स हि वर्तमानसमयादिः सादिरनन्तत्वाचापर्यवसान इति, 'तीयद्धत्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, "तिण्णि काय'ति धर्माधर्माकाशास्तिकायाः खल्वनाथपर्यवसाना इति, इत्थं जीवाजीवस्थितिश्चतुर्डेति गाथार्थः॥ द्वारम् । अद्धाकालद्वारावयवार्थ व्याचिख्यासुराहसमयावलियमुटुत्ता दिवसमहोरत्त पक्ख मासा या संवच्छर युग पलिया सागर ओसप्पि परियहा॥शादारं व्याख्या-तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपदृशाटिकापाटनदृष्टान्तादव आवलिका-असोयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरारमका, यद्वा आकाशलण्डमादित्येन स्वभाभिर्व्याप्तं तदिवसं इत्युच्यते, शेष निशेति, अहोरात्रमष्टमहरात्मकमहर्मिशमित्यर्थः, पक्षः-पञ्चदशाहोरात्रात्मका, मासातद्विगुणः, चा समुच्चये, संवत्सरो-बादशमासात्मका, युगं पञ्चसंवत्सरम् , असमथेययुगात्मक पलितमिति उत्तरपदलोपा, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोव्यात्मकं सागरमाख्यायते, उत्सर्पिणी-सागरोपमदशकोटीकोव्यात्मिका, एवमवसर्पिण्यपि, परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः ॥ द्वारम् ॥ यथाऽऽयुष्ककालद्वारमुच्यते-तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा चाहनेरइयतिरियमणुयादेवाण अहाउयं तुजं जेण । निव्वत्तियमण्णभवे पालेंति अहाउकालो सो ॥ ६६४ ॥दारं॥ व्याख्या-नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यधेन निर्वर्तितं-रौद्रध्यानादिना कृतम् 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः । द्वारम् ॥ साम्प्रतमुपक्रमकालद्वारमाहदुपिहोवकमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥६६५ ॥ दारं ॥ व्याख्या-द्विविधश्चासावुपक्रमकालश्चेति समासा, तदेव वैविध्यमुपदर्शमाह-'सामायारी अहाउअंचेव' समाचरणं समाचारः-शिष्टाचरितः क्रियाकलापस्तस्य भावः “गुणवचनब्राह्मणादिभ्यः कर्मणि च" (पा० ५-१-१२४) व्यत्र समाचार्य, पुनः स्त्रीविवक्षायां पिगौरादिभ्यश्चे (पा० ४-१-४१) ति डीए, यस्ये (पा० यस्येति च ६०४-१४८) त्यकारलोपः, यस्य हल (पा०६-४-४९) इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम्-उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतोरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्टस्योपक्रमो वेदितव्य इत्यभिप्रायः। तत्र सामाचारी त्रिविधा-'ओहे दसहा पदविभागे त्ति 'ओषः सामान्यम. ओघः सामाचारी सामान्यतः स पाभिधानरूपा, सा चोपनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात्माभृतात् , तत्राप्योधप्राभूतप्राभृतात् नियूंढेति, एतदुक्तं भवति-साम्प्रतकालप्रनजितानां तावतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षडविंशतितमामराध्ययनात्स्वल्पतरकालप्रत्रजितपरिज्ञानार्थ नियूंढेति । पदविभागसामाचार्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव नियूंढेति गाथार्थः ॥ साम्प्रतमोघनियुक्तिर्वाच्या, सा च सुप्रपश्चितत्वादेव न विवियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहइच्छा मिच्छी तहाकारो, आवसिया य नि सीहिया। आपुच्छणी य पडिपुच्छा छंदणा य निमंतणा ॥६६६ ॥ उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छं ॥६६७॥ दारगाहाओ। व्याख्या-एषणमिच्छा करणं कारः, तत्र कारशब्दःप्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थः १, तथा मिथ्या-वितथ(ग्रन्था-६५००)मनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदित www.jairielibrary.org Jain Education Intemational For Private & Personal Use Only
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy