________________
॥१७१॥ मावश्यक-हारिभद्रीयवृत्ति व्याख्या-त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोग व्यकसुधर्ममण्डिकार, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकापलभ्रातर इति, कौण्डिन्यसगोत्री द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ द्वारम् ॥ अगारपर्यायद्वारव्याचिख्यासयाऽऽह
पण्णा छायालीसा पायाला होइ पण्ण पण्णा य । तेवण्ण पंचसही अडयालीसा य याला ॥१५॥ व्याख्या-पञ्चाशत् पटुत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच त्रिपश्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ छत्तीसासोलसगं अगारवासो भवे गणहराण। एउमस्थयपरियागं अहम कित्तहस्सामि ॥ ११ ॥ दारं ॥
व्याख्या-पत्रिंशत् षोडशकम् ‘अगारवासो' गृहवासो यथासम् एतावान् गणपराणाम् इति गाथाम् । बारम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चाई-छमस्थपर्याय 'यथाक्रम' यथायोग कीर्तयिष्यामि इति गाथार्थः ॥ तीसापारस दसगंवारसपायाल चोरसदुगं चाणवगंवारस दस अडगंच एउमत्यपरियाओ ॥५२॥ दारं॥ गाथेयं निगदसिद्धा॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाहएउमत्थपरीयागं अगारवासं च योगसित्ता णं । सव्वाउगस्स सेसं जिणपरियागं वियाणाहि ॥६५॥ व्याख्या-रामस्थपर्यायम् भगारवासं च व्यवकलब्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्यायापारस सोलस अट्ठारसेव अट्ठारसेव हेव । सोलस सोल तहेकवीस चोद सोले यसोलेय ॥ ६५४ ॥दारं ॥ निगद सिद्धा । सर्वायुष्कप्रतिपादनायाहपाणउई चउहत्तरि सत्तरि तसो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणई य ॥१५५॥ अत्तरि च वासा तत्तो पावत्तरिं च वासाइं। पावट्ठी पत्ता खलु सव्वगणहराउयं एयं ॥ १५६॥ दारं ॥ गाथाद्वयं निगदसिद्धमेव ॥ आगमद्वारावयवार्थ प्रतिपादयशाहसब्वे य माहणा जञ्चा, सव्वे अज्झावया विऊ । सव्वे दुषालसंगी य, सव्वे चोदसपुग्विणो॥ ६५७॥ दारं ॥
व्याख्या-सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकार, उपाध्याया इत्यर्थः, 'विद्वांसा' पण्डिताः, अयं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिना, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाजिनोऽभिधीयन्त एव अतः सम्पूर्णज्ञापनार्थमाह-सर्वे चतुर्दशपूर्विण इति गाथार्थः ॥ परिनिर्वाणद्वारमाहपरिणिध्वुया गणहरा जीवंते णायए णवजणा छ । इंदई सुहम्मोय रायगिहे निष्खुए धीरे ॥१५८॥ दारं ॥
निगदसिद्धा। तपोद्वारप्रतिपादनायाहमासं पाओवगया सव्वेऽवि य सव्वलद्धिसंपण्णा । वरिसहसंघयणा समचउरंसा य संठाणा ॥९५९ ॥
व्याख्या-'मासं पायोवगय'त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः-प्राप्ताः, द्वारगाथोपन्यस्तषशब्दार्थमाह-सर्वेऽपि च सर्वलब्धिसम्पन्नाः-आमर्पोषध्याचशेषलब्धिसम्पन्ना इत्यर्थः, वजऋषभसंहननाः समचतुरनाम संस्थानत इति गाथार्थः ॥ उक्तः सामायिकार्थसूत्रप्रणेवणां तीर्थकरगणधराणां निर्गमा, साम्प्रतं क्षेत्रद्वारमवसरमाप्तमुलाय कालद्वारमुध्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपोयत्वात् अन्तरङ्गत्वाद् 'अन्तराबहिरङ्गयोश्चान्तरङ्ग एव विधिर्षलवान्' इति परिभाषासामर्थ्यादिति, नियुकिकृता तु क्षेत्रस्यास्पवक्तव्यत्वादन्यथोपन्यासः कृत इति । स च कालो नामाघेकादशभेद भिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽहदव्वे अद्ध आहालय उवकमे देसकालकाले यातह य पमाणे वण्णे भावे पगयं तु भावेणं ॥१६०॥दारगाहा॥
व्याख्या-तत्र 'द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धेति चन्द्रसूर्यादिक्रियाविशिष्टोऽतृतीयद्वीपसमुद्रान्तर्वस्यद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयष्ककालो देवाचायष्कलक्षणो वाच्यः. तथा 'उपक्रमकाला' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्ताघोऽवसरो विभागः पर्याय इत्यनर्थान्तरं, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्या, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिका, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चा समुच्चये, तथा च 'प्रमाणकाला' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्या वा कालः, 'भावि'त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेने ति भावकालेनाधिकार इति गाथासमुदायार्थः ॥ साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽहचेयणमचेयणस्स व व्यस्स ठिइ उ जा चउवियप्पा । सा होइ दव्वकालो अहवा दवियं तुतं चेव ॥६६१ ॥
Jain Education Intemational
For Private & Personal use only