________________
॥ १७० ॥
आवश्यक - हारिभद्रीयवृत्तिः
शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाभ्युदयफला, कालान्तरं च नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्नरनारकामर भवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ? । तत्र वेदानां चार्थे न जानासि, तेषामयमर्थ:-'जरामर्थ्य वा' वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकाला स्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात् न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनम्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात् इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात् तस्मात्संसारनिवृत्तावध्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥
,
छिण्णंमि संसयंमी जिणेण जरमरणविष्यमुक्केणं । सो समणो पब्वइओ तिहि उ सह खंडिसएहिं ॥ ६४१ ॥
व्याख्या - पूर्ववदेव | एकादशो गणधरः समाप्तः ।
उक्ता गणधर संशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहखेते काले जम्मे गोत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिणेव्वाणे तवे चेव ॥ ६४२ ।। दारगाहा एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्र -- जनपदग्रामनगरादि तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्र चन्द्रयोगोपलक्षितो वाध्यः, जन्म वक्तव्यं तच्च मातापित्रायत्तमित्यतो मातापितरौ वाथ्यौ, गोत्रं यद्यस्य तद्वाच्यम्, 'अगारछउमस्थपरियाए' ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायोगृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः सर्वायुष्कं वाच्यं तथा आगमो वाच्यः कः कस्यागम आसीत् ?, परिनिर्वाणं वाच्यं कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं केनापवर्गे गच्छता तप आचरितमिति १, चशब्दात्संहननादि व वाच्यम्, इति गाथासमुदायार्थः ॥ इदानीमयवयवार्थः प्रतिपाद्यते तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽह
मगहा गोबरगामे जाया तिष्णेव गोयमसगोन्ता । कोल्लागसन्निवेसे जाओं विअतो सुहम्मो य ।। ६४३ ।। व्याख्या -- मगधाविषये गोर्बरग्रामे सन्निवेशे जातास्त्रय एवाद्याः 'गोयमे'सि एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लासन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः ॥
मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया । अयलो य कोसलाऍ महिलाए अकंपिओ जाओ ।। ६४४ ।। व्याख्या -- मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमौर्यौ जातौ, अचलश्च कौशलायां मिथिलायामकम्पिको जात इति गाथार्थः ॥ तुंगी सन्निवेसे मेजो वच्छभूमिऍ जाओ । भगवंपि य प्पभासो रायगिहे गणहरो जाओ ।। ६४५ ॥ दारं ।। व्याख्या: - तुङ्गिकसन्निवेशे मेतार्थो वत्सभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति गाधार्थः ॥ कालद्वारात्रयवार्थः प्रतिपाद्यते तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराह -
जेहा किन्तिय साई सवणो हत्थुसरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो ॥ ६४६ ॥
व्याख्या - ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा - उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः ॥ द्वारम् | जन्मद्वारे प्रतिपाद्यते - मातापित्रायतं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह -
वसुभूई धणमिते धम्मिल धणदेव मोरिए चेव । देवे वसू य दस्ते बले य पियरो गणहराणं ॥ ६४७ ॥ व्याख्या - वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां तत्र त्रयानामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यं धनमित्रादयोऽवसेया इति गाथार्थः ॥
पुहवीय वारुणी महिला य विजयदेवा तहा जयंती य । णंदाय वरुणदेवा अहभद्दा य मायरो ॥ ६४८ ॥ दारं ॥
व्याख्या - पृथिवी च वारुणी भद्विला च विजयदेवा तथा जयन्ती च नन्दा च वरुणदेवा अतिभद्रा च मातरः, तत्र पृथिवी त्रयाणामाधानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आह
तिष्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा | कासवगोयमहारिय कोडिण्णदुगं च गोताई ॥ ६४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org