________________
॥१६॥ भावश्यक हारिभद्रीपतिः तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात्, स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात् , तथा घाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात् , पुण्यप्रकर्षानुभूतिवत्, न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः । केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं, नापितत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वम्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात् , न च सर्वथा ‘सम्मिश्रेकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेधककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यनिमित्तमन्यच दुःखातिशयस्येति। न च सर्वथैकस्य सुखातिशयनिवन्धनांशवृद्धिदुःखातिशयकारणांशहान्या सुखातिशयमभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात् , तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्न प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतः-'सात (सद्धेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू० २६) मिति, सर्व चैतत्कर्म, तस्माद्विविके पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति, किश्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किश्चिरक्षीणं किश्चिदुदीर्णम् , अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति।जिमि संसर्यमी लिणेण जरमरणविष्पमुकेणं । सो समणो पव्वइओ तिहि ७ सह खंडियसएहि ॥३३॥
व्याख्या-पूर्ववत् । नवमो गणधरः समाप्तः॥ ते पध्वइए सोउं मेयजो आगच्छई जिणसगासं । वचामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३४ ॥ व्याख्या-पूर्ववन्नवरं मेतार्यः आगच्छतीति। आभहो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसीणं ॥ ६३५॥ सपातनिका व्याख्या पूर्ववदेव।। किं मण्णे परलोगो अत्थि णस्थिति संसओ तुझं । वेयपयाण य अस्थं ण याणसी तेसिमो अत्यो ॥१६॥
व्याख्या-किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अपं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि-विज्ञानघने स्यादीनि, तथा 'सवै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मवाच चैतम्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विधाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये या कुतः परलोकः १. तस्यात्मनोऽप्रयतानत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तरामभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चाथै न जानासि, तेषामयमर्थः तत्र 'विज्ञानघने'त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्य, कचित्सनिकृष्टदेहोपलब्धावपि चैतम्यसंशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यश्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् , इह ययस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मस्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययधौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्या देवादिपर्यायान्तरावाप्तिरस्याविरुबेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पव्वहओ तिहि उ सह खंडियसपहिं ॥६३७॥ व्याख्या-पूर्ववत् । दशमो गणधरः समाप्तः॥ ते पठवइए सो पभासो आगळ जिणसगासं । वच्चामि ण धंदामी वंदित्ता पजुषासामि ॥१८॥ व्याख्या-पूर्ववनवरं प्रभासः आगच्छतीति । भाभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण च सवण्णू सव्वदरिसी] ॥ १९ ॥
सपातनिका व्याख्या पूर्ववदेव । किं मण्णे निव्वाणं अत्थि णस्थित्ति संसओ तुझं । धेयपयाण य अस्थं ण याणसि तेसिमो अस्थो ॥१४॥
व्याख्या-कि निर्वाणमस्ति नारतीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि-'जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं' तथा 'बे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मे'ति, एतेषां चायमर्थस्तव मतो प्रतिभासते. अमिहोत्रक्रिया भूतवधोपकारभूतत्वात् ..
Jain Education International
For Private & Personal Use Only