SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयत्तिः ॥१६५॥ नामयमर्थः, 'स्वमोपमं वै सकल'मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारस्वाद्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी'त्यादीनि तु सुगमानि, तथा सौम्य !न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात् , तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुब्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात् ,न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न घेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वमबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्सबलेनैव भावात्, आह च भाष्यकार:-"अणुभूय दिह चिन्तिय सुय पयइवियार देवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥१॥" न च भूताभावे स्वप्नास्वमगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशकिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तु. ल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् । अनुभूतं चिन्तितं श्रुतं प्रकृतिविकारः देवताऽभूपः । स्वमस्य निमित्तानि पुण्यं पापं च नाभावः॥१॥ किंच-आलयात्पीतादिसंवेदनजननशकयो भिन्ना वा स्युरभिन्ना वा ?, यद्यभिन्नाः सर्वैकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता १, प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात्, शक्त्यन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा ?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति !, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयानेदाभेदविकल्पद्वारेणानुपपतिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामादू , इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा नीलासंवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात् , तथा च परमाणव एव विशिष्टपरिणामवम्तो घट इति, न च परमाणुसमुदायातिरिकानि भूतानि इत्यलं प्रसङ्गेन । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पवईओ पंचहिँ सह खंडियसएहि ॥ ६१३ ॥ व्याख्या-पूर्ववत् । इति चतुर्थो गणधरः समाप्तः। ते पव्वइए सोउं सुहमो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पजुवासामी ॥ ६१४ ॥ व्याख्या-'तान्' इन्द्रभूतिप्रमुखान् प्रबजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेन इत्याह--५श्चाढ़ें पूर्ववत । स च भगवन्तं दृष्टा अतीव ममदे, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसीणं ॥ ११५॥ व्याख्या-पूर्ववत् । किं मण्णि जारिसो इह भवमिसो तारिसो परभवेऽवि?। वेयपयाण य अत्यंण जाणसीतेसिमो अत्यो ॥३१६।। व्याख्या-किं मन्यसे ! यो मनुष्यादिर्याश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, तानि चामूनि-"पुरुषो वै पुरुषत्वमश्नुते' पुरुषत्वं प्रामोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थ न जानासि, चः पूर्ववत् , तेषामयमों-वक्ष्यमाणलक्षण इत्यक्षरार्थः। तत्र वेदपदानां त्वमित्थमर्थ मन्यसे-पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्रामोतीत्यर्थः, तथा पशवो-गवादयः पशुस्वमेवेत्यमूनि भवान्तरसारश्याभिधायकानि, तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः खल्लिह जन्मनि स्वभावमाई. वाजेवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बट्या मृतः सन् पुरुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः इति, कर्मसापेक्षो जीवानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy