SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥१६६॥ मावश्यक-हारिभद्रीयवृत्तिः गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा-- बाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव,यतो भवाकुरबीजं सौम्य!सात्मकं कर्म,तच तिर्यग्नरनारकामराद्यायुष्कभेदभिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणान् , नापि सर्वधाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापनो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । छिपणंमि संसयंमी जिणेण जरमरणपिप्पमुक्केण । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ १७ ॥ व्याख्या-पूर्ववत् ॥ इति पञ्चमो गणधरः समाप्तः। ते पव्वइए सो मंडिओ आगच्छह जिणसगासं । वचामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ६१८ ॥ व्याख्या-तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदप्रतस्तस्यौ, अत्रान्तरे आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६१९ ॥ व्याख्या-पूर्ववत् । किंमन्नि बंधमोक्खा अस्थिण अथित्तिसंसओ तुझं।वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ ६२० ।। ___ व्याख्या--किं मन्यसे बन्धमोक्षौ स्तोन वा?, नन्वयमनुचितस्ते संशयः,व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, वेदपदानां चार्थ न जानासि, चः पूर्ववत्, तेषामयमों-वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि-'स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि, तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादीनि व, एषां चायमर्थस्ते चेतसि प्रतिभासते-स एषः-अधिकृतो जीवः विगुणः-सत्त्वादिगुणरहितः विभुः-सर्वगतः न बध्यतेपुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात् , मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद-विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाबन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्त्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतःसंशयः,तथासौम्य!भवतोऽभिप्रायो-बन्धो हि जीवकर्मसंयोगलक्षणः,स आदिमानादिरहितो वा स्यात् ?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्वियुगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतियुज्यते, निर्हेतुकत्वाद् , व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात् , न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्ययात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मोशानुष्ठानवैयर्थ्यम् , अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद् , अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोसोन घटते. तथा देहकर्मसन्तानानादित्वाच्च कतो मोक्ष इति ते मतिः। तत्र वेदपदानामयमर्थ:-स एष-मक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-विज्ञानात्मना सर्वगतः न बध्यते-मिथ्यादर्शनादिवन्धकारणाभावात् संसरति वा-मनुजादिभवेषु कर्मबीजाभावात् , नेत्यनुवर्तते, न मुच्यते, मुक्तत्वात् , मोचयति वा तदा खलूपदेशदानविकलत्वात् , नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्य-सकन्दनादिजनितम् आभ्यन्तरम्-आभिमानिकं वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणितु सुगमानि, प्रथा जीवकर्मणोरप्यनादिमतोरनादिमानव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शनधारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्व च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ घासावनादिरिति, न चामर्तस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy