SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ॥१६४॥ मावश्यक-हारिभद्रीयवृत्तिः तथा वन्दित्वा पर्युपासयामि इति गाथार्थः ॥ ६०६ ॥ इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्ध च भगवन्तं तदनतस्तस्था, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोसेण य सव्वण्णू सव्वदरिसीणं ॥६०७॥ व्याख्या-पूर्ववत् ॥ इत्थमपि संलप्तो हद्तं संशयं प्रयुं क्षोभादसमर्थो भगवताऽभिहितःतज्जीवतस्सरीरंति संसओ णवि य पुच्छसे किंचि । वेयपयाण य अत्यं ण जाणसी तेसिमो अस्थो॥६०८॥ व्याख्या-स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किश्चित् विदिताशेषतत्त्वम्, अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, वेदपदानां चार्थ न जानासि, तेषां तव संशयनिबन्धनानामयमों-वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानधन एव एतेभ्यो भूतेभ्यः समुत्थाय नान्येवानु विनश्यति न प्रेत्यसज्ञाऽस्ति' इत्यादीनि,तथा 'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्य ज्योतिर्मयो हि शुद्धो,यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-'विज्ञानपने'त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सज्ञा अस्ति-न देहात्मनोः भेदसञ्ज्ञाऽस्ति, भूतसमुदायमात्रधर्मस्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिकात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेगौरतादिवदिति, तथा प्रत्यक्षादि बालमेतनिदर्शनमित्युक्तेश्चौरादिकोऽयं शेयो, पहा पर्युपादासेर्धनन्तास्गो नाम इति णिचि रूपमेतत्, पर्युपासे इति कचिदस्त्यपि. प्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुति हृदयं च, तेषामयमर्थः-तत्र 'विज्ञानघने'त्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदाते, 'सत्येन लभ्य' इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, व्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिकामाख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्वायम् , अवग्रहादीनां स्वसंवेद्यत्वात् , भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तश्चेदम्-देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलधार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मतृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव 'सत्येन लभ्य' इत्यादिवेदपदप्रा. माण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पध्वइओ पंचहि सह खंडियसएहि ॥६०९॥ व्याख्या-पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानास्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्त खस्वात्मनि, न तु तस्य सत्तायामिति ॥ ते पब्धहए सो वियत्तो आगच्छई जिणसगासं । वचामिण वंदामी वंदित्ता पज्जुवासामि ॥६१०॥ व्याख्या-तान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यको नाम गणधरः आगच्छति जिनसकाश, किंविशिटेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवरसम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गोसेण य सवण्णू सव्वदरिसीणं ॥ ११ ॥ ब्याख्या-पूर्ववत् । किं मणि पंच भूया अस्थि नत्यित्ति संसओ तुझं । वेयपयाण य अत्थं ण जाणसी तेसिमो अत्यो ॥ ६१२ ।। व्याख्या-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत । संशयश तवायं विरद्धवेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि घामूनि वेदपदानि वर्तन्ते-'स्वामोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-'खमोपम' स्वमसदृशं, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् एष ब्रह्मविधिः' एष परमार्थप्रकार इत्यर्थः 'अञ्जसा' प्रगुणेन न्यायेन 'विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिहवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात् , तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा १, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात् , द्विचन्द्रवत् , भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात् , अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जाना सि, चशब्दाद्युतिं हृदयं च तेषां' तवसंशयनिबन्धनानां वेदपदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy