SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः ॥१६॥ आभहो य जिर्ण जाइजरामरणविप्पमुकेणं । नामेण य गोसेण य सव्वण्णू सव्वदरिसीणं ॥१०॥ व्याख्या-पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेति !, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥ अत्रान्तरे भगवताऽभिहित:किं मण्णि अस्थि कम्मं उदाहुणस्थित्ति संसओतुज्झ । वेयपयाण य अत्थं जाणसी तेसिमोअत्यो ।।६०४॥ __ व्याख्या-किं मन्यसे अस्ति कर्म उत नास्तीति ?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिषन्धनो वर्त्तते, वेदपदानां चार्थ न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः ।। तानि च अमूनि वेदपदानि-"पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यनैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्त्तते-पुरुष:-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्था, 'इदं' सर्व प्रत्यक्षवर्तमान चेतनाचेतनं, निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च 'भाव्यं' भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्वेत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अभेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति' यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'यहूरे' मेदि, 'यद् उ अन्तिके' उशब्दोऽवधारणे, 'अन्तिके' समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यदू अन्तर' मध्ये 'अस्य' चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्व पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग ? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावुपघातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाधुक्तिं हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्या. र्थानि वा, सौम्य ! इत्थं चैतदङ्गीकर्त्तव्यं, यतः नाकर्मणः कर्तृत्वं युज्यते, प्रवृत्तिनिबन्धनाभावात् , एकान्तशुद्धत्वात् , गगनवत्, इतश्च अकर्मा नारम्भते, एकत्वात्, एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भकत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति । न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतं, मत्प्रत्यक्षत्वात् , त्वत्संशयवत् , भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमत्त्वात् , युक्शरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः,न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधमेविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता बा वस्तुधर्मो वा ?, न तावत् वस्तुविशेषः, अप्रमाणकत्वात् , किं च-स मूर्तो वा स्यादमूर्तो वा ?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव सज्ञान्तरवाच्यं तत् , अथ अमूर्तों, न तर्हि नियामको देहकारणं वा, अमूर्त्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति,न चाकारणता स्वभावः, कारणाभावस्या विशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात् , गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तुधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत. 'पुण्यःपण्ये न पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात् , तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्त्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदशेनात्, इत्यलं प्रसङ्गेनेति ।छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ ६०५॥ व्याख्या-इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ॥ ६०५ ॥ द्वितीयो गणधरः समाप्तः॥ ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥६०६॥ व्याख्या-तौ' इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं, For Private & Personal Use Only Jain Education Interational www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy