SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ पावावकारिभद्रीपतिः एष 'अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसण्ज्ञाऽसि इति भावार्थः। ततश्च कुतो जीवः १, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यता प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गालिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात् , नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युग्यते, दृष्टान्तेऽपि तस्याध्यक्षतोsग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात् , तथा च-घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था०६०००) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो यमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात् , तथा च-एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥१॥ इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यर्थः, तथा 'अकर्ता निर्गुणो भोका' इत्यादिधाम्या, तथा 'सवै अयमात्मा ज्ञानमय' इत्याचपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषमातवत् , अतो न विमः किमस्ति नास्ति !, इत्ययं ते अभिप्रायः, तत्र वेदपदानां धार्थ न जानासि, चशब्दात् युकिं हृदयं च, तेषामेकवाक्यतायामयमर्थः-विज्ञानधन एवेति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनम्यत्वात आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसहातारमकत्वाता विज्ञानपनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानपन एव, 'एतेभ्यो भूतेभ्यः' क्षिस्युदकादिभ्यः 'समुस्थाय' कथञ्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञानं, तदभावे मुक्त्यवस्थायां भावात् , सद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं-घटसत्तायामपि नवतानिवृत्तौ शरीरभावेऽपि चैतन्य निवृत्तः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायोभयरूपत्वे सति सर्वथा नवताऽनिवृत्तः, न च इत्थं देहा बैतन्यस्यानिवृत्तिः, तथा श्रुतावप्युक्तम्-"अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽनौ शान्तायां वाचि किंज्योतिरेषायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच," तान्येष हि भूतानि विनाशम्यवधानाभ्यां शेयभाषेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पधते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकत्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात् , 'न प्रेत्यसज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसज्ञाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितस्वात् इत्ययं वेदपदार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनम्यत्वात् , तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात् , तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितममातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशकत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितस्यात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एत्र, ज्ञानावरणीयाधशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्मदां सर्वप्रत्यक्ष इति । अनुमानगम्योऽप्ययं-विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत् , व्योमकुसुमं विपक्ष इत्यनुमानं, न च लिजयविनाभूतलिङ्गोपलभव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिनविशेषस्य ग्रहास्यलिङ्गपविनाभाषग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । छिपकमि संसयंमी जिणेण जरमरणविप्पमुकर्ण । सो समणो पवहओ पंचहि सह खंडियसएहिं ॥ ६०१ ॥ - व्याख्या-एवं 'छिन्ने' निराकृते संशये जिनेन जरामरणाभ्याम्-उक्तलक्षणाभ्यां विषमुक्तः तेन 'स' इन्द्रभूतिः 'भ्रमणः प्रव्रजितः' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाः-छात्रा इति गाथार्थः ॥ ६०१॥ इह च वेदपदोपन्यासस्तदा वेदानां सञ्जातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः समाप्तः॥ तं पब्वइयं सोउं वितिओ आगच्छई अमरिसेणं । वच्चामि ण आणेमी पराजिणित्ता ण तं समणं ॥६०२॥ ___ व्याख्या-'तम्' इन्द्रभूति प्रबजितं श्रुत्वा 'द्वितीयः' खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण प्रागल्यावर्णितस्वरूपेण हेतुभूतेन, व्रजामि णमिति वाक्यालङ्कारे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्' इन्द्रजालिककल्पमिति गाथार्थः ॥६०२॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् जिनसकाशं प्राप्ता, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy