________________
मापश्वक हारिमदीयवृत्ति
॥१६॥ 'जीवे कम्मे तज्जी' भूय तारिसय बंधमोकखे य । देवा जेहए या पुणे परलोय ब्याणे ॥१९॥ व्याख्या-एकस्य जीवे संशयः-किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति नास्ति ? इति, अपरस्य 'तज्जीवे' ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' त्ति किं यो यादृश इह भवे स सादृश एव अन्यस्मिन्नपि ? उत नेति, 'बन्धमोक्खे यत्ति अपरस्य तु किं बन्धमोक्षौ स्तः ? उत न इति, आह-कर्मसंशयात् अस्य को विशेष इति !, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति ? इति, अपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति ? इति, आहबन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा कि संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः ॥ ५९६ ॥ साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहपंचण्हं पंचसया अद्भुट्ठमया य होंति दोण्ह गणा। दोण्हं तु जुयलयाणं तिसओ तिसओभवे गच्छो ।।५९७॥ ___ व्याख्या-पश्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येक परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येक गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति,तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णा गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः ॥५९७॥ उक्तमानुषङ्गिक, प्रकृतं उच्यते ते हि देवाः तं यज्ञ पाटं परिहत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव. ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्या अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः-सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकणितसर्वज्ञपवादोऽमर्षाध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याहमोऊण कीरमाणी महिमं देवेहि जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभुइसि ॥५९८ ॥
व्याख्या-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे 'एई' ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अंहंमानी, 'अमर्पितः' अमर्षयुक्तः, अमर्षो-मत्मरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽमी इत्याह-इन्द्रभूतिः, इति गाथार्थः ॥५९८॥ स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरे
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ५९९ ॥ व्याख्या-'आभाषितश्च' संलप्तश्च, केन ?-जिनेन, किंविशिष्टेन ?-जाति:-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दशविधप्राणवियोगरूपम् एभिर्विप्रमुक्तस्तेन, कथम् ?-नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिविप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः॥५९९॥ इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धो, को मां न वेत्ति!, यदि मे हद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्याम्मम विस्मय इति, अत्रान्तरे भगवानाहकिं मन्नि अस्थि जीवो उआहु नत्थित्ति संसओ तुज्झ। वेयपयाण य अत्थं न याणसी तेसिमो अस्थो॥३०॥ ___ व्याख्या हे गौतम ! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते,भगवतः सकलसंशयातीतत्वात् , संशयवतश्च तत्पयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उतनास्ति इति मन्यसे,अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः ॥६००॥ यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, म प्रेत्य सज्ञाऽस्ती" त्यादीनि, तथा स वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां चायमों भवतः चेतसि विपरिवर्त्तते-विज्ञानमेव चैतन्यं, नीलादिरूपत्वात् , चैतन्यविशिष्टं यन्नीलादितस्मात् , तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः१-'भूतेभ्यः' पृथिव्यादिलक्षणेभ्यः,किम् ?-'समुत्थाय' उत्पद्य, पुनस्तानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org