SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ मावश्यक-हारिभद्रीयवृत्तिः इति । भगवत्युस्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे , तत्कथने के गणा इति ?, उच्यतेनविणोओसीसगुणदीवणा पच्चओ उभयओऽवि । सीसायरियकमोऽविय गणहरकहणे गुणा होति॥५८८॥ व्याख्या-खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतणामुपजायते-यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम् नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्याख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ॥५८८॥ आह-स गणधर व निषण्णः कथयतीति !, उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीटंमि । जिट्ठो अन्नयरो वा गणहारी कहा बीआए ॥५८९ ॥ व्याख्या-राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्ठा अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः॥५८९ ॥ आह-स कथयन् कथं कथयतीति, उच्यतेमंखाईपऽवि भवे साहह जं वा परो उ पुच्छिज्जा । ण य णं अणाइसेसी वियाणई एस छउमत्थो ॥५९०॥ व्याख्या-सङ्ख्यातीतानपि भवान् , असङ्ख्येयानित्यर्थः, किं ?-'साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवतिअसल्ययभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्व कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रनिपादनशक्तिमाह, किं बहुना ?-'न च' नैव, णमिति वाक्यालकारे, 'अणाइसेसि'त्ति अनतिशयी अवध्याघतिशयरहित इत्यर्थः,विजानाति यथा एष गणधरछद्मस्थ इति,अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ॥५९०॥ समवसरणं समत्तं एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीप। भ्यागतजनानां परितोषोऽभवद्-अहो स्विष्टं, विग्रहवन्तः खलु देवा आगता इत्याहतं दिवदेवघोसं सोऊणं माणुसा तहिं तुट्ठा । अहो(हु) जण्णिएण जडं देवा किर आगया इहई ॥ ५९१ ॥ व्याख्या-तं दिव्यदेवघोषं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो' विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः सेनेष्टं, कुतः ?-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः ॥५९१ ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चएकारसवि गणहरा सवे उण्णयविसालकुलवंसा । पाषाएँ मज्झिमाए समोसढा जन्नवाडम्मि ॥५९२॥ व्याख्या-एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह-'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशा:-अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवस्ताः ' एकीभूताः, व ?-यज्ञपाट इति गाथार्थः ॥५९२॥ आह-किमाद्याः किनामानो वा त एते गणधराः इति, उच्यते पढमित्थ इंदमूई बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥५९३ ॥ व्याख्या-प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीयः पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ॥ ५९३ ॥ . मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य । मेयजे य पभासे गणहरा होंति वीरस्स ॥५९४ ॥ व्याख्या-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः॥ ५९४ ॥ जंकारण णिकखमणं वोच्छं एएसि आणुपु०वीए । तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा ॥ ५९५ ॥ व्याख्या-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 'आनुपूया' परिपाट्या, तथा तीर्थ च सुधर्मात् सञ्जातं, 'निरपत्याः' शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थः ॥ ५९५ ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह * सुधर्मति स्याद्वायं, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ चसमासान्तविधेरनित्यत्वात् , अथवा केषाशिम्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy