SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॥१५९॥ आवश्यक- हारिभद्रीयवृत्तिः रावयवार्थमधिकृत्योच्यते तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्त्ता ये खल्वानयम्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवर्त्त्यादयस्तदुपप्रदिदर्शयिषुराह वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदाणं तु चकिस्स ॥ ५८० ॥ व्याख्या -- 'वृत्तिस्तु' वृत्तिरेव नियुक्त पुरुषेभ्यः, कस्येत्याह -- सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु, केषामित्याह -- चक्रवर्त्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् इति गाथार्थः ॥ ५८० ॥ एयं चैव पमाणं वरं रथयं तु केसवा दिति । मंडलिभाण सहस्सा पीईदाणं सयसहस्सा ॥ ५८१ ॥ व्याख्या -- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूप्पं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदाणं सतसहस्सं' ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः ॥ ५८१ ।। किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याह भतिविषाणुरूपं अण्णेऽवि य देति इन्भमाईया । सोऊण जिणागमणं निउत्तमणिओइएसं वा ॥ ५८२ ॥ व्याख्या -- भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्राम भोगिकादयः, कदा?-- श्रुत्वा जिनागमनं, केभ्यो ? - नियुक्तानियोजितेभ्यो वेति, गाथार्थः॥५८२॥ तेषामित्थं प्रयच्छतां के गुणा इति, उच्यतेदेवा अति भक्ती या थिरकरण सन्तअणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ॥ ५८३ ॥ व्याख्या - देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां तथा कथकसत्त्वानुकम्पा च कृतेति तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ ५८३ ॥ द्वारं ॥ साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह - कस्तं करोति इति ?, उच्यते राया व रायचो तस्सऽसई पउर जणवओ वाऽचि । दुब्बलिस्खंडिय बलिछडियतंदुलाणाढर्ग कलमा ॥ ५८४ ॥ व्याख्या- 'राजा वा' चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासि विशिष्ट लोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह- 'दुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं - चतुःप्रस्थपरिमाणं, 'कलमे 'ति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः ॥ ५८४ ॥ किंविशिष्टानामिति ? आह भाइ पुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरह बली सुरावि य तत्थेव छुहंति गंधाई ॥ ५८५ ॥ व्याख्या - विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं - पुनरानयनमिति, विभक्ताश्वते पुनरानीताश्चेति समासः, तेषां किंविशिष्टानाम् १- अखण्डाः -सम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च dsस्फुटिताश्च इति समासः, तेषां, 'फलगसरिताणं' ति फलकवी नितानाम् एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव aat प्रक्षिपन्ति गन्धादीनिति गाथार्थः || ५८५ ॥ द्वारं॥ माल्यानयनद्वारं, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूर्यनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आहलिपवि सणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥ २८६ ॥ व्याख्या -- पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं 'तिष्ठति' उपरमते धर्मकथंति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति, इति गाथार्थः ॥ ५८६ ॥ अद्धद्धं अहिवइणो अवसेसं हवइ पागयजणस्स । सत्र्वामयप्पसमणी कुप्पइ णऽण्णो य छम्मा से || ५८७ ॥ व्याख्या - शेषार्द्धस्य अर्द्ध-अर्द्धार्द्ध तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेषं यद्वलेरास्ते तद्भवति कस्य ?, प्रकृतिषु भवः प्राकृतो- जनस्तस्य, स चेत्थंसामर्थ्यो भवति - ततः सिकुथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च- सर्वामयप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाधार्थः ॥ ५८७ ॥ द्वारम् || अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्त भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy