SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥१५८॥ भाषायक-हारिभद्रीयपतिः न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ॥५७३॥ उक्तमानुषङ्गिक, प्रकृतद्वारमधिकृत्याहउत्कृष्टरूपतया भगवतः किं प्रयोजनमिति !, अत्रोच्यते,धम्मोदएण रूवं करेंति रूवस्सिणोऽवि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥५७४॥ व्याख्या-दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिःप्रवर्तते, तथा 'प्रायवाक्यच' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः ॥ ५७४ ॥ द्वारम् । अथवा पृच्छेति भगवान् देवनरतिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यव. च्छित्तिं करोतीति !, उच्यते, युगपत्, किमित्याह-- कालेण असंखेणवि संखातीताण संसईणं तु । मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥ ५७५ ॥ व्याख्या-कालेनासत्येयेनापि सल्लयातीतानां संशयिना-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः।-क्रमव्या. करणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः ॥ ५७५ ॥ युगपद्व्याकरणगुणं प्रतिपिपादयिषुराहसव्वत्थ अविसमत्तं रिडिविसेसो अकालहरणं च । सवण्णुपचओऽवि य अचिंतगुणभूतिओ जुगवं ॥५७६॥ व्याख्या-'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासता कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत् ,न, तेषामित्थं देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतो-यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति । अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात् , क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्थमेव भवति, न सर्वज्ञो हगताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात् , तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ ५७६ ॥ द्वारम् ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहवासोदयस्स व जहा वण्णादी होति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं ॥५७७॥ ___ व्याख्या-'वर्षोदकस्य वा' वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेपात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊपरे तु विपरीतम् , एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः ॥ ५७७ ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निविजइ सोया किढिवाणियदासिआहरणा ॥ ५७८ ॥ व्याख्या-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात नरकादिभयरक्षणत्वाद्वा, असपला-अद्वितीया, साधारणा(चा)ऽसावसपत्ना चेति समासः, तस्यां साधारणासपनायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्यावधारणार्थत्वात् , कस्यां -ग्राहयतीति माहिका,ग्राहिका चासौ गीच ग्राहकगीः तस्यां ग्राहकगिरि,उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः १ इत्याह-किढिवणिग्दास्युदाह रणादिति, तच्चेदम्-एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कहाणं गया, तण्हाछुहाकिलंता आगया, अतिथेवा कह' आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पठविया, सा य वहूं कट्ठयभारं ओगाहंतीए पोरुसीए गहायागच्छति, कालो य जेठामूलमासो, अह ताए थेरीए कठ्ठभाराओ एगं कई पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सई सुणेती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं परिस्समंचन विंदइ, सूरत्थमणे तित्थगरो धम्म कहेउमुडिओ, थेरी गया । एवंसव्वाउअंपि सोया खवेज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अदिगणेतो ॥ ५७९ ॥ व्याख्या-भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवयैव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किविशिष्टः समित्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः।५७९शद्वारम् । साम्प्रतं दानद्वा १ एकस्य वणिजः एका काष्ठिकी दासी, काठिकी स्थविरा, सा गोसे (प्रत्युषसि) काष्ठेभ्यो गता, तृष्णाक्षुधालान्ता मध्याहे भागता, भतिखोकानि काहाम्यानीतानीति पिहिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च वृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीस्वागच्छति, कालच ज्येष्ठामूलो मासः, अब तखाः स्थविरायाः कारभारात् एकं काहं पतितं, तदा तयाऽवनम्य तद्गृहीतं, तस्मिन् समये च भगवांस्तीर्थकरो धर्म कथितवान् योजनम्यापिना स्वरेण, सा स्थविरा शब्द अण्वन्ती तथैवावनता श्रोतुमारब्धा, सणं क्षुधा पिपासा परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थको धर्म कथयित्वोत्थितः, स्थविरा गता. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy