________________
॥१५७॥ भावश्यक-हारिभद्रीयवृत्तिः भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिवन्धनं भवति, भगवतः मातिशयत्वादिति गाथार्थः ॥ ५६६ ॥ आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति ?, उच्यतेतपुग्विया अरया पूइयपूता य विणयकम्मं च । कयकिचोऽवि जह कहं कहए णमए तहा तित्थं ॥५६७ ॥
व्याख्या-तीर्थ-श्रुतज्ञानं तत्पृर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद् , भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च' वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात् , उक्तं च-तं च कथं वेदिजती'त्यादि गाथार्थः ॥ ५६७ ॥ आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम् , अनागच्छतो वा किं प्रायश्चित्तमिति !, उच्यतेजत्थ अपुल्वोसरणं न दिडपुत्वं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥५६८॥
व्याख्या-यत्रापूर्व समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः,न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यःस आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति लहुग' त्ति चतुर्लघवःप्रायश्चित्तं भवतीति गाथार्थः॥५६॥द्वारम्॥ अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते,साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्थ विवृण्वन् आह
सम्वसुरा जइ रुवं अंगुट्ठपमाणयं विउठवेज्जा । जिणपायंगुह पइ ण सोहए तं जहिंगालो॥५६९ ॥ * तच कथं वेचते ?. व्याख्या-कीदृग भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गुष्ठप्रमाणकं विकुवीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः ॥ ५६९ ॥ साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽहगणहर आहार अणुत्तरा (य)जाव वण चक्कि वासु बला।मण्डलिया ता हीणा छटाणगया भवे सेसा ॥५७०॥
व्याख्या-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारकदेहरूपेभ्योऽनन्तगुणहीनाः 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, अवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्कव्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह-'जाव वण चकि वासु बला । मंडलिया ता हीणत्ति' यावत् व्यन्तरचक्रवर्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, 'छठ्ठाणगया भवे सेस'त्ति शेषा राजानो जनपदलोकाश्च षस्थानगता भवन्ति,अनन्तभागहीना वा असङ्ख्येयभागहीना वा सक्वेयभागहीनावा सत्येयगुणहीना वा असङ्ख्येयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥५७०॥ उ यितुं प्रक्रन्तायामिदं प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह
संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइणुत्तराई हवंति नामोदए तस्स ॥ ५७१॥ व्याख्या-'संहननं' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थानं' समचतुरस्रं 'वर्णो' देहच्छाया 'गतिः' गमनं 'सत्त्वं वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽभ्यन्तरश्च, बायो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः,'उन्टासः'प्रतीत एव,संहननं च रूपंच संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं वेत्यादि, कुत इत्याह-'नामोदयादिति नामाभिधानं कर्मानेकभेदभिन्नं तदयादिति गाथार्थः ॥५७१॥ आह-अन्यासां प्रकृतीनां वेदना गोत्रादयो नानो वा ये इन्द्रियानादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यतेपगडीणं अण्णासुवि पसत्थ उदया अणुत्तरा होति । खय उवसमेऽविय तहा खयम्मि अविगप्पमाहंसु॥५७२॥ ___ व्याख्या-'पगडीणं अण्णासुवि' ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह-'अनुत्तरा' अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह ति,क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपिये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदयम् 'अविगप्पमाहेसु'त्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥५७२ ॥ आह–असातवेदनीयाद्याः प्रकृतयो नानो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति !, अत्रोच्यतेअस्सायमाझ्याओ जावि य असुहाहवंति पगडीओ।णिंबरसलवोव्व पए ण होति ता असुहया तस्स ॥७॥ व्याख्या-असातायाः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'पपसि' सीरे लवो-बिन्दुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org