SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ मावश्यक-हारिभद्रीयवृत्तिः घेइदुमपेढछंदय आसणवतं च चामराओ य । जं चण्णं करणिजं करेंति तं वाणमंतरिया ।। १५३॥ व्याख्या-चैत्यदुमम्-अशोकवृशं भगवतः प्रमाणात द्वादशगुणं तथा पीठं तदधो रसमयं तस्योपरि देवच्छन्दक तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चा समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्र च, यच्चान्यद्वातोदकादि 'करणीय' कर्तव्यं कुर्वन्ति तद् व्यन्तरां देवा इति गाथार्थः ॥ ५५३ ॥ आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, अत्रोच्यते साहारणओसरणे एवं जस्थिहिमं तु ओसरइ । एछु चिय तं सव्वं करेह भयणा उ इयरेसिं ॥५४॥ व्याख्या-साधारणसमवसरणे एवं साधारणं-सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जस्थिहिमं तु ओसरइंचि यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्व करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपाययं जिणउच्चत्ताओ बारसगुणं सक्को विउबई" इत्यादि, 'भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः ॥ ५५४ ॥ सूरोदय पच्छिमाए ओगाहन्तीएँ पुव्वओऽईइ । दोहि पउमेहिं पाया मग्गेण य होइ सत्तऽन्ने ॥५५५ ॥ व्याख्या-एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायां 'ओगाहंतीए'त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'पुवओऽतीती'ति पूर्वद्वारेण 'अतीति'त्ति आगच्छति प्रविशतीत्यर्थः । कथमित्याह-द्वयोः 'पद्मयोः' सहस्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, 'मग्गेण य होंति सत्तऽण्णे'त्ति मार्गतश्च पृष्ठतम भवन्ति सप्तान्ये च भगवतः पद्मा इति,तेषांच यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतःपुरतस्तिष्ठतीतिगाथार्थः॥५५५॥ आयाहिण पुष्वमुहो तिदिसि पडिरूवगा उ देवकया। जेट्ठगणी अण्णो वा दाहिणपुव्वे अदूरंमि ॥ ५५६ ॥ __व्याख्या-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आदाहिणत्ति चैत्यदुमप्रदक्षिणां कृत्वा 'पुषमुहो'त्ति पूर्वाभिमुख उपविशतीति, 'तिदिसिं पडिरूवगा उ देवकय'त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थमिति, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठो वाऽन्यो वेति,मायोज्येष्ठ इति,स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासम एव भगदतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थकरस मार्गतः पार्वतश्च निषीदन्तीति गाथार्थः ॥५५६॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाह जे ते देवेहि कया तिदिसि पडिरूवगा जिणवरस्स । तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं ॥१७॥ __ व्याख्या-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि 'तत्प्रभावात्' तीर्थकरप्रभावात् 'तदनुरूप' तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः ॥ ५५७ ॥ तित्थाइसेससंजय देवी वेमाणियाण समणीओ।भवणवइवाणमंतर जोइसियाणं च देवीओ ॥५५८॥ व्याख्या-'तीर्थ गणधरस्तस्मिन् स्थिते सति 'अतिसेससंजय'त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः ॥ ५५८ ॥ अवयवार्थप्रतिपादनाय आहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमादीवि णमंता वयंति सट्ठाणसवाणं ॥५५९ ॥ व्याख्या केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिन' तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य' तीर्थस्य गणधरस्व निपीदन्तीति क्रियाध्याहारः, मणमाईवि नमंता वयंति सट्टाणसहाणं ति मनःपयोयज्ञानिन तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निपीदन्तीति । आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनःपर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निवीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथम भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपयायज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः ॥ ५५९॥ भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए ॥५६० ॥ व्याख्या-भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तरपश्चिमे पार्थे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् नियश्चास्य, चशब्दस्य व्यवहित उपन्यासः। किम् ?-पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति ॥५६०॥ अत्र च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy