SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥१५४॥ मावश्यक हारिभद्रीयवृत्तिः यो विधिरसौ वक्तव्यः, 'उवरि तित्थं' ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति - गणधरो देशनां करोतीति गाथासमुदायार्थः । अवयवार्थे तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति ॥ ५४३ ॥ आह- इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाह जत्थ अपुव्वोसरणं जन्थ व देवो महिडिओ एइ । वाउदयपुष्पवद्दलपागारतियं च अभिओगा ॥ ५४४ ॥ व्याख्या — यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः ‘एति’ आगच्छति, तत्र किमित्याह – वातं रेण्वाद्यपनोदाय उदकवईलं भाविरेणुसंतापोपशान्तये तथा पुष्पवईलं क्षितिविभूषायै, वईलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियोगमर्हन्तीत्याभियोग्याः - देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थः ॥ ५४४ ॥ एवं तावत् सामान्येन समवसरण करणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह arrrrrrri भूमीभागं समंतओ सुरभिं । आजोअणंतरेणं करेंति देवा विचिन्तं तु ॥ ५४५ ॥ व्याख्या—मणयः-चन्द्रकान्तादयः कनकं - देवकाञ्चनं रलानि - इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रतानि, सैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ?– कुर्वन्ति देवा विचित्रं तु, किं परिमाणमित्याह - 'आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् !-मणिकनकरत्नविचित्रमिति गाथार्थः ॥ ५४५ ॥ टाई सुरभिं जलथलयं दिव्वकुसुमणीहारिं । परंति समन्तेणं दसद्धवण्णं कुसुमवासं ॥ ५४६ ॥ व्याख्या - वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिहरि प्रकिरन्ति समन्ततः दशार्द्धवर्ण कुसुमवर्ष, भावार्थ: सुगम, नवरं निर्धारि - प्रबलो गन्धप्रसर इति गाथार्थः ॥ ५४६ ॥ मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति । सच्छन्तसालभंजियमय रज्यचिंघसंठाणे ॥ ५४७ ॥ व्याख्या-मणिकनकरत्नचित्राणि 'चउद्दिसि' त्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आहछत्र - प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकर'प्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि - स्वस्तिकादीनि संस्थानंतद्रचनाविशेष एव सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः ॥ ५४७ ॥ तिनि य पागारवरे रयणविचित्ते तर्हि सुरगणिंदा । मणिकं चणकविसीसग विभूसिए ते विउब्वेंति ॥ ५४८ ॥ व्याख्या - त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ॥ ५४८ ॥ सा चेयम् -- अभंतर मज्झ बहिं विमाणजोहभवणाहिवकया उ । पागारा तिष्णि भवे रयणे कणगे य रथए य ॥ ५४९ ॥ व्याख्या—अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कणगे य र यत्ति रत्नेषु भवो रालः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो- रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ ५४९ ॥ मणिरयण हे मयाविय कविसीसा सव्वरयणिया दारा । सव्वरयणामय चिय पडागधयतोरणविचित्ता ॥ ५५० ॥ व्याख्या - मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारसमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषामविरुद्धमिति गाथार्थः ॥ ५५० ॥ तप्तो य समंतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउच्वैति ॥ ५५१ ॥ व्याख्या - ततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः किम् ? - धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ ५५१ ॥ उक्कुट्ठिसीहणायं कलयलसद्देण सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा णिवयमाणा ॥ ५५२ ॥ व्याख्या - तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः - हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् १- कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं 'सर्वम्' अशेषमिति गाथार्थः ॥ ५५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy