________________
भाषश्वक-हारिभद्रीयवृत्तिः भ्याख्या-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् एत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लम्धं तत् 'निशामयत' शृणुतेति गाथार्थः ।। ५३६ ।।। पारस चेव य वासा मासा छञ्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमस्थपरियाओ ॥५३७॥ व्याख्या-द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छमस्थपर्याय इति गाथार्थः ॥ ५३७ ॥ एवं तवोगुणरओ अणुपुवेणं मुणी विहरमाणो । घोरं परीसहचमु अहियासित्ता महावीरो॥५३८॥
न्याख्या-'एवम्' उक्तेन प्रकारेण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् 'पोरां' रौद्रां 'परीषहचमूं' परीषहसेनामधिसह्य महावीर इति गाथार्थः ।। ५३८ ॥
उप्पण्णंमि अणते नटुंमि य छाउमथिए नाणे । राईए संपतो महसेणवर्णमि उजाणे ॥५३९ ॥ न्याख्या-'उत्पन्ने' प्रादुर्भूते कस्मिन् ?-'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच केवलमनन्तं, नष्टे च छानस्थिके ज्ञाने, राज्यां संप्राप्तो महसेनवनमुद्यानं, किमिति -भगवतो ज्ञानरलोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अभ्यागता आसन् , तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् , ततो
ध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्याया खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूप देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेष पन्थानमुद्योतयन् देवपरिकल्पितेषु पनेषु चरणम्यासं कुर्वन् मध्यमानगर्या महसेनवनोद्यानं संप्राप्त इति गाथार्थः ॥ ५३९ ॥ __ अमरनररायमहिओ पत्तो धम्मवरचक्कवहितं । बीयपि समोसरणं पावाए मझिमाए उ ॥५४॥
व्याख्या स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः, किमित्याह-धर्मभासौ परश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्प्रभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायां, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥ ५४०॥ तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि।पउरा जणजाणवया समागया जन्नवामि ॥५४१ ॥
व्याख्या-'तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत् , सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः 'जना' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः ॥ ५४१ ॥ अत्रान्तरे
एगते य विवित्ते उसरपासंमि जन्नवाडस्स । तो देवदाणविंदा करेंति महिमं जिणिंदस्स ॥५४२॥ व्याख्या-एकान्ते च विविक्ते उत्तरपार्चे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिदस्स' कृतवन्त इति गाथार्थः ॥ ५४२ ॥ अमुमेवार्थ किश्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह
भवणवइवाणमंतरजोइसवासी विमाणवासी य।।
सव्विलिए सपरिसा कासी नाणुप्पयामहिमं ॥ ११५॥ (भाष्यम्) व्याख्या-भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वा हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पतिमहिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेता द्वारगाथामाह
समोसरणे केवईया स्वं पुच्छ वागरण सोयरिणामे ।
दोणं च देवमल्ले मलौणयणे उपरि तित्थं ॥५४३ ॥ दारगाहा ॥ व्याख्या-'समोसरणे'त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः। केवइय'त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयःप्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति। रूवत्ति'भगवतो रूपं व्यावर्णनीयं, पुच्छत्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योतरं च वक्तव्यं,कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, वागरणं'ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सपातीतानामपि पृच्छतांब्याकरोतीति, 'पुच्छावागरणं' ति एकं वाद्वारं,पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे'त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः,यथा-सर्वश्रोतॄणां भागवती वाक् स्वभाषया परिणमत इति । 'दाणं च'त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्त्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । देवमल्ले'त्ति गन्धप्रक्षेपात देवानां सम्बन्धि माल्यं देवमाल्यं-बल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मल्लाणयणेत्ति माल्यानयने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org