________________
॥ ३ ॥
आवश्यक हारिभद्रीयवृत्तिः
हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः । मङ्गलत्वं चाशेषशास्त्रम्य निर्जरार्थत्वात्, प्रयोगश्च - विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात्, तपोवत् । कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् उक्तं च- "जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडी हिं । तं नाणी तिहि गुतो, खवेइ ऊसासमितेणं ॥ १ ॥” । स्यादेतत् एवमपि मङ्गलत्रयपरिकल्पना वैयर्थ्यमिति, न, विहितोसरत्वात्, तस्मात्स्थितं - मेतत् -- शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति ।
आह - मङ्गलमिति कः शब्दार्थः १, उच्यते, अगिरगिलगिवगिमगि इतिदण्डक धातुः, अस्य “इदितो नुम्धातोः ” ( पा० ७-१-५८ ) इति नुमि विहिते औणादिकालधूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति,
ते हितमनेनेति मङ्गलं, मङ्गयते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिमानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे “आतोऽनुपसर्गे कः " ( पा० ३-२-३ ) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते “आतो लोप इटि च ङ्किति” ( पा० ६-४-६४ आतो लोप इटि च ) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गं लातीति मङ्गलं धर्म्मोपादान हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः ।
१ अनुमानख. २ मङ्गलत्रयस्य अविनसमात्यादिकार्यत्रयस्य पृथक्पृथक्तया साधकत्वात्. ३ सिद्धम् ४ सदृशधातूनामेकार्थे पाठात् ५ प्रात्यर्थत्वात् गत्य . ६ निदर्शनमात्रत्वाद्धातूनाम्. ७ पर्यायस्य पर्यायकथने प्रयोग एतस्य.
तव नामादि चतुर्विधं तद्यथा - नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्रे “यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च ) नाम यादृच्छिकं च तथा ॥ १ ॥” अस्योयमर्थः - 'यदू' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, ' तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतो वर्त्तत इति, इन्दनादिन्द्रः 'इदि परमैश्वर्ये' इति तस्य परमैश्वर्ययुक्तत्वात्, गोपालदार के तु तदर्थशून्यमिति, तथा पर्यायैः — शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचरागोपालस्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किश्चिदू यादृच्छिकं डित्थादिवत् चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं "णामं आवकहियं” तत् प्रतिनियतजनपद संज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्य जीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा - श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथा-दनमालेति । “यस्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ २ ॥” अस्यायमर्थः - 'यद्' वस्तु 'तदर्थवियुक्तं भावेन्द्राद्यर्थरहितं तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायो बुद्धिः, तदुद्धयेत्यर्थः, करणिराकृतिः, यचेन्द्राद्याकृति 'लेप्यादिकर्म क्रियते' चशब्दात्तदाकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चे
१ तस्वभेदपर्यायैर्व्याख्ये तिनियमात् प्राकरवं मङ्गलस्य हितमाहयाद्यभिधाय भेददर्शनाय २ चतुर्विधे मङ्गले. ३ आर्यावृत्तस्य नामलक्षणप्रतिपादक प्रयस्येति वा ४ आदिना तदुभयस्य ५ गुणतः ६ त्रिदशाधिपे ७ इन्द्रस्य ८ इन्द्रार्थेति ९ मभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात्. १० परावृत्तिभावात्.
मल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभवि च, स्थाप्यत इति स्थापना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति । “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ ३ ॥” अस्यायं भावार्थ:- 'भूतस्य' अतीतस्य 'भाविनो वा' एष्यतो 'भावस्य' पर्यायस्यै 'कारण' निर्मित्तं 'यद्' ऐव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति ताँस्तान्पर्यायान् क्षरति चेति द्रव्यं 'तस्वज्ञेः' सर्वज्ञैस्तीर्थ कृद्भिरितियावत् सचेतनम् अनुपयुक्त पुरुषाख्यम् अचेतनं ज्ञशरीरोदि तथभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः । तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा - आगमतो नोआगमतश्च तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य तत्रागमतो मङ्गलशब्दांध्येत अनुपयुक्तो द्रव्यमङ्गलम् 'अनुपयोगो द्रव्य' मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं, तद्यथा- इशरीरद्रव्यमङ्गलं १ भव्यशरीरद्रव्यमङ्गलं २ ज्ञशरीरभव्यशरीव्यतिरिक्तं ३ द्रव्यमङ्गलमिति । तत्र ज्ञस्य शरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्,
१ आकृत्यन्तरे पूर्वाकारोच्छेदात्. २ नन्दीश्वरद्वीपादिस्थप्रतिमादि. ३ स्थाप्यमानापेक्षया, अन्यत्र तु तिष्ठतीति स्थापना. ४ आदिना नन्दावन्तोदि. ५ भागमनोभागमाभ्यां विचारयिष्यमाणत्वाद्भावार्थ इति । ६ वाशब्दस्य निपातानामनेकार्थत्वेन समुच्चयार्थत्वाद्भूतभविष्यतोवेति ज्ञेयं ( चकाराद्भूतभविष्यत्पर्यायमिति विशेषावश्यके ) ७ विवक्षितस्य भावतया ८ " आगमकारणमाया देहो सहो य तो दब्बं" ति३० विशेषावश्यकवचनादुपादानादीनि विविधानि कारणानि. ९ इष्टावधारणार्थत्वा योग्यत्वसद्भाव इति ज्ञापयति । १० पर्यायस्य क्रमभावित्वात्पूर्व पर्यायान् क्षरति, भूतापेक्षया क्षरति, भविष्यदपेक्षया गच्छतीत्यपि ११ द्वादशाङ्गार्थप्ररूपणाकारित्वात्तेषाम् १२ आदिना भव्यशरीरग्रहः १३ ज्ञभव्यशरीरव्यतिरिक्तमप्रधानं कारणादि च. १४ युक्तिदर्शनपुरस्सरं दर्शितं द्रव्यस्वस्वरूपमेतदिति १५ पठिता. * उपलक्षणादनुपयुक्तानुष्ठानादि व्यतिरिक्तमङ्गलत्वात्तस्य + पेक्षयेत्यर्थः १-४ ज्ञाता २
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org