________________
॥ २ ॥
आवश्यक हारिभद्रीयवृत्तिः
"
नादिपरिज्ञानात् शास्त्रादौ प्रयोजनाद्युपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः । प्रेक्षावतां हि प्रवृत्तिर्निश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न संशयविशेषस्य प्रवृत्तिहेतुत्वदर्शनात्, कृषीवलादिवत् इत्यलं प्रसङ्गेन । साम्प्रतं मङ्गलमुच्यते यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च-- “ श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कॉपि यान्ति विनायकाः ॥ १ ॥” इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदारम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्श्यत इति । तच्च मङ्गलं शाखादी मध्ये अवर्सने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत् न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविघ्नेन पारं गच्छेयुः ?, अतोऽर्थमादिमङ्ग लोपन्यासः, तथा सें एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽर्थे मध्यमङ्गलेस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छिया उपकारकः स्याद् ? इत्यतोऽर्थ चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र “आभिणिबोहियणाणं, सुयणाणं
"
१ शास्त्रारम्भे २ प्रयोजनादेरुपन्यासस्य युक्तियुक्तत्वात्. ३ केवलशास्त्रस्य मूकत्वात् शास्त्रार्थस्येति ४ प्रयोजनादेः ५ अनिष्टाननुबन्धीष्टसिद्धिसंशयस्य ६ निर्युतिकृता साक्षादुक्तत्वात्. ७ पृथगवतारणा. ८ महान्तो विघ्नाः ( पूर्वपदलोपातू विनायकाः ) ९ निर्युक्तिरूपः १० कल्पस्थात्. १३ आवश्यकानुयोगःरम्भे. १२ विशेशानामादिना मध्यानां. १३-१४ शास्त्रस्येत्यध्याहार्यम्. १५ सपोनिर्जरार्थस्वात् १६ निर्विघ्नसमाप्तिस्थैर्याध्यवच्छिनिमित्त केति. १७ महलप्रयोजनस्य शास्त्रेण साधनात्प्रयोजनान्तराभावादित्यर्थः १८ “विभक्तिथमन्ततसाद्याभाः” इति तसन्तमव्ययं, तथा चैतदर्थमिति १९ शास्त्रार्थः २० विनेयानाम्. २१ उपन्यास इति + शास्त्रस्यादौ १४ इत्यतः ८-४
va" त्यादिनाऽऽदिमङ्गलैमाह । तथा "वंदण चिति कितिकम्मं” इत्यादिना मध्यमङ्गलं, वन्दनस्य विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलत्वात् । तथा "पञ्चकखाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्यातपो भेदत्वादेव मङ्गलत्वमिति ॥ तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ?, यदि भिन्नमतः शास्त्रममङ्गलं, तद्भेदार्न्यथानुपपत्तेः, अमङ्गलस्य व सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थ्य, तदुपादानेऽनिष्टावा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम्, एवं मङ्गलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपादानानर्थक्यमेव, अथ मङ्गलभूर्तस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं संति तस्याप्यन्यदुपादेयमित्यनवस्थानुषङ्ग एव, taraaस्था नेष्यत इति मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता', एवं मङ्गले स्याप्यन्यर्मेङ्गलशून्यस्य, इत्येतो मङ्गलार्भाव इति ।
अत्रोच्यते-- आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति । चैरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलवा१ प्रयोजनाभावरूपस्य २ गाथा १ आदिशब्देनाथभागाव सानपर्यन्तस्य महः ३ जं नेरहओ इत्यादिना ज्ञानस्य स्पष्टं निर्जरार्थत्वान्मङ्गलता ४ गाथा वन्दनकनि. द्वितीयभेदः ६ धम्मो मंगलमुकि अहिंसा संजमो तवो इति वचनात् ७ बाह्येति ८ मङ्गलभेदवत्वस्य ९ न पर्यवसानम्. १० शास्त्रस्य ११ सङ्गलरू. पस्याप्यन्यन्मङ्गलवरणे. १२ मूलक्षयकरीति ( अन्यद्वितीयमङ्गलकरणाभावात् ) १३ कृतस्य. १४ द्वितीयेति १५ द्वितीयकरणाभावात् १६ शास्त्रे संपन्न:. १७ भेदेति १८ अनिष्ठालक्षणेति १९ अभेदपक्षे. * मङ्गलभूतस्यापि १४ एवं १४-५
नुवादात् एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृहणीयात् ?, अतो मङ्गलमिदं शास्त्रमितिक थ्यते । आह - यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मैङ्गलरूपत्वात् स्वकार्यप्रसाधनायामेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि - साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्धीव गृह्यमाणः प्रशस्तंचेतोवृत्तेर्भव्यस्य तत्कीर्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीति भावार्थः । आह-यद्येवंममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृत्प्राप्नोतीति, अनिष्टं चैतदिति, न, तस्यै स्वरूपेणैवामङ्गलत्वात्, मँङ्गलस्य व बुद्धिसापे क्षस्य स्वर्याभिनिवर्त्तकत्वादिति, तथाहि--यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्त्तते ततस्तफैलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्धयों, नाप्येतद्ध्येति । मङ्गलत्रयापान्तरालद्वयमित्थ में मङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा
१ सिद्धस्य कथनम् २ इष्टनमस्कारादिमङ्गलविधानद्वाराऽनूद्यते. ३ शास्त्रम् ४ अन्यनमस्कारादिमङ्गलनिरपेक्षत्वेन. ५ निर्विघ्नपारगमनादि. ६ मङ्गलरूपस्यापि मङ्गलकरणे. ७ मङ्गलकार्यकृत्. ८ 'नोआगमभो भावो सुविसुद्धो खाइयाइओ ति ( वि० ४९ गाथा ) वचनात्क्षायिकादिभाववतो यतेर्मङ्गलता. ९. लोकोत्तर तत्वप्राप्तिमताज्ञापनाय १० आसन्न सिद्धिताज्ञापनाय ११ प्रधानमङ्गलतासंपादनेति १२ मकुलबुद्ध्या १३ मङ्गलकार्यकृत् १४ मङ्गलबुद्ध्या गृह्यमाणं मङ्गलभूतमपि मङ्गलकार्यकृत्. १५ मङ्गलबुद्धेर्मङ्गलकार्यकृत्ये १६ अमङ्गलस्य. १७ स्वरूपेण मङ्गलस्यापि तथात्वापत्तराह मङ्गलेति १८ वो विशेषार्थः १९ मङ्गलस्येति २० विघ्नविध्वंसादि. २१ सुवर्णकार्य दारिद्र्यनाशादि. २२ काञ्चन कार्यकृद्भवतीति शेषः २३ काञ्चनमपि काञ्चनकार्यकृत् भवतीतिशेषः २४ मङ्गलं मङ्गलबुद्ध्या गृह्यमाणं तत्कार्यकृदितिनियमे. * तस्य च १-३-४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org