________________
भावश्यक-हारिभद्रीयवृत्तिः अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमासः । एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलोदितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्यत्वार्च तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भन्यो योग्यः, मङ्गलपदार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम् , अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थ:-भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगोशारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गमिति,नोशब्दः पूर्ववत् । ज्ञशरीरभव्यशरीरव्यतिरिकंच द्रव्यमाल संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वीं अतीतसंयमादिक्रियापरिणाम, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यदू भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्त, भव्यशरीरद्रव्यमङ्गलवत्, तथा यदेपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम् , अत्रापि नोशब्द: सवेनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । “भावो विवक्षितक्रियानुभूतियुक्तो हि वे समाख्यातः सर्वज्ञ रिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥४॥" अस्थायमर्थः-भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वज्ञैः
मालभावेति. २ यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सेति, ( अनु. ) आदिना तीर्थकरनिर्वाणभूम्यादि, ३ आदिना मधुकुम्भादि. ४ नोभागमतोपपादनाय. ५ भावमङ्गलकारणताज्ञापनाय. ६ आदिना युवादि. ७ सर्वनिषेध एव. ८ उभयसमुच्चयायापि. ९ आदिना तपोनियमादि. १. शरीरमात्मनग्यं वा. १ शमग्यशरीरेति उभयं १३ निमित्तकारणस्यापि दम्यत्वार्थ. १३ बदित्यन्तः. * मानुषयुक्तः १-२-३-१ + चाती १३ समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम् , अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतच, तत्रागमतो मङ्गलपैरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाद इति चेत्, न, अभिप्रायापरिज्ञानात , संवित ज्ञानम् अवगमो भाव इत्यनर्थान्तर, तत्र 'अर्थाभिधानप्रत्ययाः तल्यः नामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात् , प्रदीपहस्तान्धवत् पुरुर्षांन्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात् , बन्धाद्यभावश्च, ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वादू, आकाशवत्, न चानलः सर्वे एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नौदिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते-नोआगमतो भावमङ्गलम् आगमवर्ज ज्ञानचतुष्टयामेति, सर्वनिषेधवचनत्वान्नोशब्दस्य, अथवा सम्यग्दर्शन ज्ञानचारित्रोपयोगपरिणामो यः स नागम एच केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराद्यपयोगः
मङ्गकाधिकारे भावाधिकारे भावलक्षणसिद्धौ वा. २ अर्थाभिधानप्रत्ययेतिन्यायादग्निज्ञानस्याग्निरूपत्वं, तदव्यतिरिक्तस्य ज्ञातुरपि, तथा सति भनिलक्षणस्वमिति ज्ञायते. ३ ज्ञानात्मनोर्व्यतिरिक्तत्वे. ५ ज्ञानात्मनो दात्. ५ प्रदीपवज्ज्ञानम् , अन्धवज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तत्वं च निकटस्वाय. ६ समवायापेक्षया दृष्टान्तान्तरं अन्तरापेक्षया वा. ७ विषयवैशिश्वशून्यं, तथाच शेयस्य भिन्नत्वं ज्ञामात्. ८ प्रसङ्गोऽमिष्टापसिः ९ चकारो मोपल भेतेस्यनेन सह समुश्यार्थः, ज्ञानात्मनो दे दूषणान्तरमेतदिति १० स्यादित्यध्याहार्यम्. ११ चन्द्रकान्तमणिव्यवहितादेर्ग्रहः, भमच्छन्नादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तत्वम् । १२ नोशब्दस्य पर्युदासप्रतिषेधार्थत्वादागमवयं ज्ञानचतुष्टयमिति. * ज्ञानोपयुक्तो. खल्वागमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥ ननु नामस्थापनाद्रव्येषु मङ्गलोभिधानं विवक्षितभावशून्यवादू दैव्यत्वं च समानं वर्तते; ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सबूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च प्रामुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्यन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्त, स्वकार्यप्रसाधकत्वात् , न नामादयः, तस्कार्याप्रसाधकत्वात्, पापयदू इति चेत्, न, नामादीनामपि भावविशेषत्वात् , यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं
नोशब्दस्य सर्वदेशनिषेधैकदेशवाचकत्वात् , क्रमेण नोआगमतो मङ्गलपदार्थत्रयं ज्ञानचतुष्टयादिरूपम्. २ द्रव्येषु दधिदूर्वादिषु अभ्यादिषु मा. लाभिधानं.. "अभिहाणं दग्वत्तं तयस्थसुनत्तणं च तुल्लाई" इतिविशेषावश्यके पृथक प्रोक्तं, भत्र तु तदर्थशून्यरवं ग्यत्वे हेतुतयोक्तम्, 'यस्तुनोऽमिधान' मिति 'यतु तदर्थवियुक्त' मिति वचनानामस्थापनयोरपि द्रष्यत्वं, कारणता सर्वत्रेति वा द्रव्यता, पूर्व निक्षेपचतुष्कस्य प्रक्राम्तस्वानामग्यभेदविषयाशा, विवक्षितेस्थादेस्तु द्रव्यत्वे हेतुता. ५ भावे संभवामान आह-दव्यत्वमिति,विवक्षितभावशून्यत्वं हि तत्,नच तनाव इति। ५ स्पष्टं लक्ष्यमानस्वादादौ स्थापनाभेद निरूपणम्. सद्भावस्थापनापेक्षया. भवितथेति. ८ बुद्धिः ९ सहस्राक्षवज्रधरस्वादि..प्रतीतिः "आराधनातत्परतावर्शनाय. २ सुखधनादि फलं. १३ तत्पाक्षिकेति. १५ स्थूलबुद्धेलोकस्य सत्र तथाध्यवसायाचभावात्. १५ नोभागमतो भावेन्द्रस्य.१५ कब्धिज्ञानवतां. १७ भव्यशरीरद्रष्यं, १७रीरवण्य. १९ अर्थक्रियाकारि वस्वित्यभिप्रेत्याह. २० निर्विघ्नशास्त्रार्थपारगमनादि. २१ नाममङ्गलादीनां. २२ धर्मरूपत्वात्. २५ भव्युत्पादितं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org