________________
॥१२४॥
मावश्यक-हारिभद्रीयतिः पुन्धि उक्खित्ता माणुसेहि सा हहरोमकूवेहि। पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ॥९८॥ (भा०)
व्याख्या-पूर्व' प्रथमं 'उत्क्षिप्ता' उत्पाटिता, कै?-मानुषैः, सा शिविका, किंविशिष्टैः१-दृष्टानि रोमकूपानि येषामितिसमासः, तैः । पश्चाद्वहन्ति शिविकां, के ?-असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः । असुरादिस्वरूपव्यावर्णनायाहचलघवलभूसणधरा सच्छंदविउविआभरणधारी।देविंददाणविंदा वहति सीअंजिणिदस्स ॥ ९९ ॥ (भा०)
गमनिका-चलाश्च ते चपलभूषणधराश्चेति समासः । चला:-गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनिधारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह'स्वच्छन्दविकुर्विताभरणधारिण',क एते १-देवेन्द्रा दानवेन्द्राः,किम् ?-वहन्ति शिविकां जिनेन्द्रस्येति गाथार्थः॥ अत्रान्तरेकुसुमाणि पंचवण्णाणि मुयंता दुंदुही य ताडता।देवगणा य पहा समंतओउच्छयं गयणं ॥१०॥(भा०)
व्याख्या-भगवति शिविकारूढे गच्छति सति नभास्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भीस्साडयन्तश्च, के ?-'देवगणाः' देवसंघाताः, पशब्दस्य प्रासंबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हष्टाःप्रहष्टाः, किम् - भगवम्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवनिर्देवैः किमित्याह-समन्ततः' सर्वासु दिक्षु सर्व 'उच्छर्य गगणं' च्याप्तं गगनमिति गाथार्थः ॥ वणसंडोव्व कुमुमिओपउमसरोषा जहा सरयकाले ।सोहर कुसुमभरेणंइय गगणयलं सुरगणेहिं १००मा०)
गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण-हेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः ॥ सिद्धस्थवर्ण च(व)जहा असणवणं सणवणं असोगवणाचूअवणंव कुसुमिइअगयणयलं सुरगणेहि१०२(भा०)
व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशना:-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इ' एवं गगनतलं सुरगणै रराजेति गाथार्थः ॥ .
___ अपसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं व ।।
तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥१०३ ॥ (भा०) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥ वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिँ तूरेहि। धरणियले गयणयले तूरनिनाओ परमरम्मो॥१०४॥ (भा०) ___ व्याख्या-चरपटहभेरिझल्लरिदुन्दुभिशङ्खसहितैस्तूर्यैः करणभूतैः, किम् ?-धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः॥ एवं सदेवमणुआमुराएँ परिसाएँ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥१०॥ (भा०) __ गमनिका-एवं' उक्तेन विधिना, सह देवमनुष्यासुरवर्तत इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ उजाणं संपत्तो ओरुभइ उत्तमाउ सीआओ। सयमेव कुणइ लोअंसको से पडिच्छए केसे ॥१०६॥ (भा०) ___गमनिका-उद्यानं संप्राप्तः, 'ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शको' देवराजा 'से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥
जिणवरमणुण्णवित्ता अंजणघणरुयगविमलसंकासा।
केसा खणेण नीआ खीरसरिसनामयं उदहिं ॥ १०७ ॥ (भा०) गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जन-प्रसिद्धं घनो-मेघः रुक-दीप्तिः, अञ्जनघनयो रुक् अञ्जनधनरुक् अञ्जनघनरुग्वत् विमलः संकाश:-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः 'रुचकर कृष्णमणिविशेष एव, क एते-केशाः, किम्-क्षणेन नीताः, कम् ?-क्षीरसहशनामानमुदर्षि' क्षीरोदधिमिति गाधार्थः ॥ अत्रान्तरे च चारित्रं प्रतिपनुकामे भगवति सुरासुरमनुजन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थ प्रतिपादयन्नाहदिव्यो मणूसघोसो तूरनिनाओ अ समवयणेणं। खिप्पामेव निलुको जाहे पडिवजह चरितं ॥१०८॥ (भा०) __गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शक्रवचनेन 'क्षिप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org