SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ॥१२॥ माधवक-हारिभद्रीयवृत्तिः मणपरिणामोअकओअभिनिक्खमणमि जिणवरिंदेणादेवोहियदेवीहिं यसमंतओ उच्छयंगय॥८९॥ (भा०) __गमनिका-मनःपरिणामश्च कृतः 'अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च 'समन्ततः' सर्वासु दिक्षु 'उच्छयं गयणं' ति व्याप्तं गगनमिति गाथार्थः॥ भवणवइवाणमंतरजोइसवासी विमाणवासी आधरणियले गयणयले विजुज्जोओकओ खिप्पं ॥९०॥(भा०) ___ गमनिका-यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योति:शब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विद्युदु. द्योतः कृतः 'क्षिप्रं' शीघ्रमिति गाथार्थः॥ जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवोल्य देवीहिँ य अविरहिअं संचरंतेहिं ॥ ९१ ॥ (भा०) __ गमनिका यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश 'अविरहित' व्याप्तं संचरद्भिरिति गाथार्थः ॥ अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगमत्, अमुमेवार्थ प्रतिपादयति-'चंदप्पभा येत्यादिना'चन्दप्पभा य सीआ उवणीआ जम्मजरणमुक्कस्स।आसत्समल्लदामा जलयथलयदिव्वकुसुमहिं ॥१२॥ (भा०) व्याख्या-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै ?-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या । किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाहपंचासह आयामा धणूणि विच्छिण्ण पण्णवीसंतु। छत्तीसइमुब्बिद्धा सीया चंदप्पभा भणिआ ॥९३॥(भा०) __ व्याख्या-पञ्चाशत् धनूंषि आयामो-दैर्घ्य यस्याः सा पञ्चाशदायामा धनूंषि, विस्तीर्णा पञ्चविंशत्येव, षटूत्रिंशद्धषि 'उविद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिविका चन्द्रप्रभाभिधाना 'भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः ॥ सीआइ मायारे दिव्वं मणिकणगरयणचिंचइसीहासणं महरिहं सपायवीटं जिणवरस्स ॥९॥(भा०) व्याख्या-शिविकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्यं' सुरनिर्मितं मणिकनकरलखचितं सिंहासनं म मणयः-चन्द्रकान्ताद्याः कनक-देवकाञ्चनं रतानि-मरकतेन्द्रनीलादीनि 'चिंचइ ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमर्हतीति महार्ह, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थः ॥ आलइअमालमउडो भासुरवोंदी पलंबवणमालो । सेययवत्थानियस्थो जस्स य मोल्लं सयसहस्सं ॥ ९५॥ छ?णं भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुज्झतो आरुहई उत्तम सीअं ॥ ९६ ॥ (भा०) ___* सुंदरेण वृत्ती. व्याख्या-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च मालामुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमालाप्रागभिहिता अन्या वा यस्येति समासः । 'सेययवत्थनियत्थो' त्ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीही निष्ठान्तं पूर्व निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः । यस्य च मूल्यं शतसहनं दीनाराणामिति गाथार्थः ॥ स एवंभूतो भगवान् मार्गशीर्षबहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छडेणं भत्तेणं' इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः । अध्यवसानं-अन्त:करणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण' शोभनेन 'जिन' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाकायपूर्विकाः कृष्णादि. द्रव्यसंबन्धजनिताः खलु आत्मपरिणामाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात्,परिणामो य आत्मनःस्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥” ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा प्रधानां शिबिकामिति गाथार्थः ॥ सीहासणे निसण्णो सकीसाणा य दोहि पासेहिं । वीअंति चामरेहिं मणिकर्णंगविचित्तदंडेहिं ॥९॥ (भा.) व्याख्या-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ।-चीजयता, काभ्याम् !-चामराभ्यां, किंभूताभ्याम् ?-मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः ॥ एवं भगवति शिविकान्तर्वर्सिनि सिंहासनारूढे सति सा शिबिका सिद्धार्थोद्याननयनाय उत्क्षिप्ता ॥ कैरित्याह * रयण वृत्तौ. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy