________________
॥१२२॥
मावश्यकमारिभद्रीयति गमनिका-शक्रश्च 'तत्समझ लेखाचार्यसमक्ष 'भगवंत' तीर्थकर आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा 'पुच्छिसु सद्दलक्खणं, वागरणं अवयवा इंद' पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं-शब्दशास्त्रं, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं संजातमिति गाथार्थः ॥ द्वारम् । विवाहद्वारावयवार्थमभिधित्सयाऽऽहउम्मुक्कबालभावो कमेण अह जोव्वर्ण अणुप्पत्तो। भोगसमत्थं गाउं अम्मापिअरोउ वीरस्स ॥७८॥(भा०) __ गमनिका-एवं उन्मुको बालभावो येनेति समासः, 'क्रमेण' उकप्रकारेण 'अर्थ' अनन्तरं 'यौवन' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्रायः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगा:-शम्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं, को-मातापितरौ तु वीरस्येति गाथार्थः ॥ किम् ?तिहिरिक्खंमि पसत्थे महन्तसामन्तकुलपसूआए।कारतिपाणिगहणं जसोभवररायकण्णाए ॥७९॥(भा०) - गमनिका-तिथिश्च ऋक्षं च तिथि, शं-नक्षत्र, तस्मिन् तिथिक्षे, 'प्रशस्ते' शोभने, महञ्च तत्सामन्तकुलं न महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणेर्महणं पाणिग्रहणं, कया !-यशोदा चासो वरराजकन्या चेति विग्रहः तया, तत्र 'महासामन्तकुलप्रसूतया' इत्यनेनान्वयमहत्वमाह, 'वरराजकम्यया' इत्यनेन तु तत्कालराज्यसंपधुकतामाहेति गाथार्थः ॥ द्वारम् । अपत्यद्वारावयवार्थ व्याचिख्यासुराहपंचविहे माणुस्से भोगे मुंजितु सह जसोभाए । तेयसिरिंच सुरूप जणेइ पिसदसणं धूभं ॥८॥ (मा.)
गमनिका-'पञ्चविधान्' पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजाश्रीः तां तेजःश्रियमिय सुरूपा, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुता' दुहितरं, 'जणिंसु' वा पाठः, जनितवानिति गाथार्थः॥ द्वारम् । अत्रान्तरे च भगवतः मातापितरौ कालगती, भग
ज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम न्यापारो न षोडम्य इति, प्रतिपने भगवान् समधिकं वर्षद्वयं प्रामुकेषणीयाहारः शीतोदकमप्यपिषन् तस्थी, अत्रान्तर एव महादानं दत्तवान् ,लोकान्तिकैश्च प्रतियोधितः पुनः पूर्णावधिः प्रबजित इति॥ अमुमेधार्थ संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत्इत्युत्तरजोएणं कुंडग्गामंमि खत्तिओ जयो । बजरिसहसंघयणो भविभजणवियोहओ वीरो॥४५९॥ सो देवपरिग्गहिओ तीसं वासाइ वसह गिहवासे । अम्मापिइहिं भपर्व देवत्तगएहि पब्बइओ ॥ ४६० ॥ ___गमनिका-'हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्या' उत्कृष्ट इत्यर्थः, वज्रऋषभसंहननो भव्यजनयिबोधको वीरः, किम् -मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रबजित इति योगः। द्वितीयगाथाग
* तओ वृत्तौ प्र.. मनिका-स' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि धसति, उपित्वा वा पागन्त, गृहवासे शेष व्याख्यातमेव ॥ ४५९४६० ॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थ व्याख्यानयति-संवच्छरेण.' गाथेत्यादिनासंवच्छरेण०॥८१॥ एगा हिरण्ण० ॥८२॥ सिंघाडय० ॥८॥वरपरिभा०॥८४॥ तिण्णेव य० ॥८५॥ (भा०) इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वात वित्रियते ॥ द्वारम् । संबोधनद्वारावयवार्थमाह
सारस्सयमाइश्चा० ॥८६॥ एए देवनिकाया० ॥ ८७॥ (भा०) एवं अभिथुव्वंतो बुडो बुद्धारविंदसरिसमुहो। लोगंतिगदेवहिं कुंडग्गामे महावीरो॥८८॥ (भा०) इदमपि गाथात्रयं व्याख्यातत्वात् न प्रतन्यते । आह-ऋषभदेवाधिकारे 'संबोहणपरिवाएत्ति' इत्यादिद्वारगाथायां संबोधनोत्तरकालं परित्यागद्वारमुक्तं, तथा मुलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाणे संबोध निक्खमणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति। ततश्च इह दानद्वारस्य संबोधनद्वारा पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासाम्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् संबोधनद्वारात्प्रागुपन्यासो न्याय प्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथानियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन ॥ द्वारम् । साम्प्रतं निष्क्रमणद्वारावयवार्थ व्याचिख्यासुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org