SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ॥१२०॥ आवश्यक - हारिभद्रीयवृत्तिः गयगाहा ॥ ५४ ॥ एए चोहससुमिणे पासइ सा माहणी पडिनिअसे । जं रयणी अवहरिओ कुच्छीऑ महायसो वीरो॥५५॥(भा०) पूर्ववत् । इदं नानात्वं पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्थां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः ॥ गयगाहा ॥ ५६ ॥ ( भाष्यम् ) एए चोस सुमिणे पासह सा तिसल्या सुहपसुत्ता। जं स्यणि साहरिओ कुच्छिसि महायसो वीरो ॥५७॥ भा० इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ॥ गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह— तिहि नाणेहि समग्गो देवी तिसलाइ सो अ कुच्छिसि । अह वसइ सण्णिगन्भो छम्मासे अद्धमासं च ॥५८॥ भा० गमनिका - 'अथ' अपहारानन्तरं वसति संज्ञी वासौ गर्भश्चेति समासः, क्र १ - देव्याः त्रिशलायाः स तु कुक्षी, आहसर्वो गर्भस्थः संयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात् स च ज्ञानद्वयवानपि भवत्यत आह- त्रिभिर्ज्ञानैः - मतिश्रुतावधिभिः समग्रः । कियन्तं कालमित्याह - पण्मासान् अर्धमासं चेति गाथार्थः ॥ अह सप्तमंमि मासे गम्भस्थो वेवऽभिग्गहं गिरहे । नाहं समणो होहं अम्मापिअरंमि जीवंते ॥ ५९ ॥ भा० ) गमनिका - अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्न करणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति यद्यहमनयोः जीवतोः प्रब्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, * अ ( मूले ) ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह - नाहं श्रमणो भविष्यामि मातापित्रोर्जीवतोरिति गाथार्थः ॥ एवंदोहं वरमहिलाणं गभे बसकण गन्भसुकुमालो । नवमासे परिपुण्णे सन्त य दिवसे समहरेगे ॥ ६० ॥ ( भा० ) गमनिका - द्वयोर्वर पहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् ? नव मासान् प्रतिपूर्णान् सप्त दिवसान् 'सातिरेकान् समधिकान् इति गाथार्थः ॥ अह द्धिपक्ate तेरसीपुवरतकालंमि । हत्थुतराहिं जाओ कुण्डग्गामे महावीरो ॥ ६१ ॥ (भाष्यम्) गमनिका --'अध' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले - प्रथम प्रहरइयान्त इति भावार्थ: । हस्तोत्तरायां जातः हस्त उत्तरो यासां ता हस्तोत्तराः - उत्तराफाल्गुल्य इत्यर्थः । कुण्डग्रामे महावीर इति । जातकर्म दिकुमार्यादिभिर्निर्वर्त्तितं पूर्ववदवसेयं, किश्चित्प्रतिपादय शाहआभरणरयणवासं वुद्धं तिस्थंकरंमि जायंमि । सको अ देवराया उधाणओ आगया निहओ ।। ६२ ।। ( भा० ) ★ गमनिका - आभरणानि - कटककेयूरादीनि रत्नानि इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ I तुडाओ देवीओ देवा आदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुकसुहाव हे जाए || ६३ ॥ ( भाष्यम् ) व्याख्या - तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ॥ गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह rematarणमंतर जोइसवासी विमाणवासी अ । सब्बिहीइ सपरिसा चउव्हिा आगया देवा ॥ ६४ ॥ ( भा० ) गमनिका - भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वर्ध्या सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः ॥ देहिं संपरिवुड देविंदो गिहिऊण तिस्थयरं । नेऊण मंदरगिरिं अभिसे तत्थ कासी ॥ ६५ ॥ (भाष्यम्) व्याख्या - देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं 'अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥ काऊ य अभिसे देविंदो देवदाणवेहि समं । जणणीइ समपिता जम्मणमहिमं च कासीअ ॥ ६६॥ (भा० ) गमनिका -- कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यम्तरभवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः ॥ साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह खोमं कुंडलजुअलं सिरिदामं वेब देइ सक्को से । मणिकणगरयणवासं उबच्छुभे जंभगा देवा ॥ ६७ ॥ ( भा० ) गमनिका - ' क्षौर्म' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरतखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचर सूत्रप्रदर्शनार्थः । 'जृम्भकाः' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः ॥ dearerणसंच आ उ ते तिरिअजं भगा देवा । कोडिग्गसो हिरण्णं रयणाणि अ तत्थ उबर्णिति ॥ ६८ ॥ (भा० ) गमनिका - वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः 'कोव्यमशः ' कोटीप Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy