SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वश्यक हारिभद्रयवृत्तिः एता ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियन्ते । माहणकुंडग्गामे कोडालसगुत्तमाहणो अत्थि । तस्स घरे उववण्णो देवाणंदाइ कुच्छिसि ॥ ४५७ ।। अस्या व्याख्या - पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः ॥ ४५७ ॥ साम्प्रतं वर्धमानस्वामिवक्तव्यतानित्रद्धां द्वारगाथामाह नियुक्तिकारःसुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ ५ वुडि ६ सरणं ७ च । भेसण ८ विवाह ९ बच्चे १० दाणे ११ संबोह १२ निक्खमणे १३ ॥ ४५८ ।। ॥११९॥ 1 गमनिका - 'सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्क्रामन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभिहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसे उत्ति' अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'वुड्डित्ति' दृद्धिर्वतव्या भगवतो यथाऽसौ वृद्धिं जगाम । 'सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । 'विवाहेति' विवाहविधिर्वक्तव्यः । 'अवच्चेत्ति' अपत्यं - पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधन विधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ ४५८ ॥ अवयवार्थ तु द्वारं वक्ष्यति भाष्यकार एत्र तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह- प्रति गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुम्भं ९ । पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहिं च १४ ॥ ४६ ॥ ( भाष्यम् ) गमनिका -- गजं वृभं सिंहं अभिषेकं दाम शशिनं दिनकरं ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रलोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेकः- श्रियः परिगृह्यते, दाम - पुष्पदाम रतविचित्रं, विमानं च तद्भवनं च विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति ॥ 1 एए चउदस सुमिणे पासइ सामाहणी सुहपसुता । जं स्यणि उबवण्णो कुच्छिसि महायसो वीरो ॥४७॥ (भा०) गमनिका -- एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा 'एए चोद्दस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः ॥ अह दिवसे बासीई व सह तहि माहणीइ कुच्छिसि । चिंतइ सोहम्मवई, साहरिजं जे जिणं कालो ॥४८॥ ( भा० ) गमनिका - अथ दिवसान् व्यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु चिन्तयति सौधर्मपतिः संहर्त्तु 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्त्तते इति गाथार्थः ॥ किमिति संहियत इत्याहअरहंत चकवटी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ॥ ४९ ॥ ( भाष्यम् ) भावार्थ: स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह उग्गकुल भोगखत्तिअकुलेस इक्खागनायकोरव्ये । हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ||१०|| (भा०) गमनिका - उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति उत्पद्यन्त इत्यर्थः ‘तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थः ॥ यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान् एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेष परिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामितेि । स हि तदादेशात्तथैव चक्रे । भाष्यकारस्तु अमुमेवार्थ 'अह भणती' त्यादिना प्रतिपादयतिअह भइ णेगमेसिं देविंदो एस इत्थ तित्थयरो | लोगुत्तमो महप्पा उववण्णो माहणकुलंमि ॥५१॥ ( भा० ) गमनिका - 'अर्थ' अनन्तरं भणति 'णेगमेसिं' ति प्राकृतशैल्या हरिणेगमेषिं देवेन्द्रः 'एष' भगवान् 'अत्र' ब्राह्मणकुले 'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः । इदं चासाधु, ततश्चेदं कुरु - खतिअकुंडग्गामे सिद्धत्धो नाम खत्तिओ अत्थि । सिद्धत्थभारिआए साहर तिसलाइ कुच्छिसि ॥५२॥ ( भा० ) गमनिका - क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थ भार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ बाढति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरप्ते हत्युत्तर तेरसी दिवसे || ५३ ॥ ( भाष्यम् ) गमनिका - स हरिणेगमेषिः 'वाढंति भाणिऊणं'ति बाढमित्यभिधाय, अत्यर्थ करोमि आदेशं, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पश्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुग बहुलत्रयोदश्यां संहरति पूर्वरात्रे - प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy