SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ॥१०५॥ आवश्यक हारिभद्रीयवृत्तिः वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति, आः ज्ञातं-कपायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्व संवेगं यातवान् इति । अत्रान्तरे लोक बाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः - नेह ज्ञायते कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरतः - पृच्छापूर्वकं देयमिति । ततस्तान् पृष्टवन्तस्ते - को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ? स आह-- श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुत्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः - सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरलेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तत्रन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्य स्थितिः, आदित्ययशसस्तु काकिणीरलं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थ समोसरणेत्यादिगाथया प्रतिपादयति- समुसरण भक्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वढ्ढह कागिणिलंछण अणुसृज्जणा अट्ठ ।। ३६२ ॥ गमनिका -- समवसरण भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्, भगवांश्च तस्मै प्रतिपादितवान् । 'अंगुलि झय'त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः । 'सक'त्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्-त्वादधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं - श्रावका अधिका इति । 'जेया वइत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिह्नं तेषां कृतमासीत् 'अणुसज्जणा अत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीथकरान् यावदिति गाथार्थः ॥ तत ऊर्ध्व मिथ्यात्वमुपगता इति ॥ ३६२ ॥ राया आइचजसो महाजसे अहबले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ॥ ३६३ ॥ भावार्थ: सुगम एवेति गाथार्थः ॥ एएहिं अद्भभरहं सपलं भुक्तं सिरेण धरिओ अ । पवरो जिनिंदमउडो सेसेहिं न चाइओ बोढुं ॥ ३६४ ॥ गमनिका — एभिरर्धभरतं सकलं मुक्तं, शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैःनरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ ३६४ ॥ अस्सावगपडिसेहो छट्टे छट्ठे अ मासि अणुओगो । कालेण व मिच्छन्तं जिणंतरे साहुवोच्छेओ ॥ ३६८५ ॥ गमनिका - अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः- परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः कदा १, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ ३६५ ॥ साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह * प्रथमो. दाणं च माहणाणं १ वेए कासी अ २ पुच्छ ३ निव्वाणं ४ । कुंडा ५ धूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९ ।। ३६६ ।। ( मूलदारगाहा ) गमनिका - दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अ'त्ति आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्याय निमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ' त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान् - यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्त्रिह भविष्यन्तीत्यादि । 'णिवाणं'ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतचकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः || ३६६ || अवयवार्थ उच्यतेआद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तु 'पुणरवि' गाथेत्यादिना आह पुणरवि अ समोसरणे पुच्छीअ जिणं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो को इहं भरहे ? ।। ३६७ ॥ गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिणे य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः संबन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः ॥ ३६७ ॥ तथा चाह नियुक्तिकारः * चक्रवर्ती. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy