SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥१०४॥ मावश्यक-हारिभद्रीयवृत्तिः जिनकल्पिकादयः 'मञ्झन्ति' मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः,धातुरक्तानि भवन्तु मम वस्त्राणि किमिति?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः॥३५७||तथाथजंतऽवजभीरू बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ ३५८॥ गमनिका-वर्जयन्ति अवद्यभीरवो बहुजीवसमाकुलं जलारम्भ, तत्रैव वनस्पतेरवस्थानात् , अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्मानं च पानं घेति गाथार्थः ॥ ३५८ ॥ एवं सो अमई निअगमहविगप्पिसंहम लिंगं । तडित उसजुतं पारिव्वजं पवत्तेह॥३५॥ गमनिका-स्थूलमृपावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ?-तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्टु युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदं पारिव्रज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमान निर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिज ततो कासी' त्ति पारिवाजं ततः कृतवानिति गाथार्थः ॥ ३५९ ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् , तथा चाहअह तं पागडरूवं दटुं पुच्छेइ बहुजणो धम्मं । कहा जईणं तो सो विआलणे तस्स परिकहणा ॥ ३६० ॥ गमनिका-अथ तं प्रकटरूपं-विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्म, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि * यतो रुचितमतिः अतो. लक्षणं ततोऽसाविति लोका भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं पागडरूवं दडं पुच्छिसु बहुजणो धम्मं । कहतींसु जतीणं सो वियालणे तस्स परिकहणा ॥१॥' प्रवर्तत इति गाथार्थः ॥ ३६०॥ धम्मकहाअक्खित्ते उवढिए देइ भगवओसीसे । गामनगराइआई विहरइ सो सामिणा सद्धिं ॥ ३६१ ॥ गमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना साध, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥ ३६१ ॥ अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृति 'चके, कदाचिदोगान् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति एञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनाभेन निमन्त्रितवान् , राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो वभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहः राजा * प्रतिपिढे. वग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताधिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिटे देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोडनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाहगुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः १, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात् , पुनरप्याह भरतः-तस्याकृतिमात्रेणापि अस्माकं कौतुकं, तन्निदर्श्यतां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वरामदर्शयत् , दृष्ट्वा च तां भरतोऽतीव मुमुदे, शकाङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततःप्रभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान्-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान् इमनलावि तिपुंस्त्वापत्तौ भौणाविक इमान रूपं, बाहुल्या मनुक्तान्महेः, तथा च हजनिभ्यामिमनिति सूत्रेणेमन् , दीर्घादिस्वप्रस्तुत एव. *खाप ग्रह.. + मात्रेऽपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy