SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आवश्यक - हारिभद्रीयवृत्तिः ॥१०३॥ तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः ॥ स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान् किं मन्ये एष चक्रवत्तीं ? यथेदानीं दुर्बलोऽहमिति ॥ कायोमवस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् 'अर्हन्' आदितीर्थकरः, 'हस्तिनः अवतर' इति चोके चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥ उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले के वलिप र्षदं गत्वा तीर्थ नत्वा आसीनः ॥ अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपार्श्वे विहरति तपःसंयमसमग्रः ॥ स च सामायिकादिकमेकादशमङ्गं यावत् उक्तः क्रियायां भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ॥ १२-६७ ॥ 1 अह अण्णया कपाई गिम्हे उण्हेण परिगयसरीरो । अण्हाणएण चहओ इमं कुलिंगं विचिते ॥ ३५० ॥ गमनिका -- 'अर्थ' इत्यानन्तर्ये 'कदाविद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अस्नानेनेति' अस्नानपरीषदेण त्याजितः संयमात् 'एतत्कुलिङ्गं' वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ ३५० ॥ hefireeमभारे न हुमि समत्थो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमणुकैखी ॥ ३५१ ॥ गमनिका - मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्त्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, दुहितरौ + पो० परिषदं तत्तीर्थ.. केते ?, गुणाः विशिष्टक्षान्त्यादयस्तान्, कुतो ?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्गीति गाथार्थः ॥ १५१ ॥ ततश्च किं मम युज्यते ?, गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यं - एवमचिंतंतस्स तस्म निअगा मई समुप्पण्णा । लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ ३५२ ॥ * व्याख्या- ' एवं ' उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजा मतिः समुत्पन्ना, न परोपदेशेन स ह्येवं चिन्तयामासलब्धो मया वर्त्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्यात् इति गाथार्थः || ३५२ ।। यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाह - ममणातिदंडरिया भगवंतो निहुअसंकुइअअंगा । अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं ॥ ३५३ ॥ गमनिका - श्रमणाः मनोवाक्काय लक्षण त्रिदण्ड विरताः, ऐश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि - अन्तःकरणाशुभव्यापारचिन्तन परित्यागात् संकुचितानि - अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः - 'अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि - चक्षुरादीनि दण्डा-मनोवाक्कायलक्षणा येन स तथोध्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्न, अविस्मरणार्थमिति गाथार्थः ॥ ३५३ ॥ लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ वेरमणं मे सपा होउ ॥ ३५४ ॥ गमनिका - मुण्डो हि द्विविधो भवति-द्रव्यतो भावतश्च तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथम् ?, लोवेन इन्द्रियैश्च मुण्डाः संयतास्तु, अहं पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा वर्त्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः ॥ ३५४ ॥ निकिंचणा य समणा अकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥ ३५५ ॥ गमनिका - निर्गतं किञ्चनं - हिरण्यादि येभ्यस्ते निष्किश्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम् - अल्पमपि येषां asthani - जिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्वनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः ॥ ३५५ ॥ तथाaarयमोहा समणा मोहच्छण्णस्स छत्तयं होउ । अणुवाहणा य समणा मज्झं तु उवाहणा होन्तु ॥ ३५६ ॥ गमनिका - व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथाक्षरार्थः ॥ ३५६ ॥ तथा सुकंबरा य समणा निरंबरा मज्झ धाउरताई । हुतु इमे वत्थाई अरिहो मि कसायकलुसमई ॥ ३५७ ॥ गमनिका - शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं ( ग्रन्थाग्रम् ४०००) येषां ते निरम्बरा * काञ्चनं. + ०ञ्चन अ०. + ०नाश्व जि० | गाथार्थः. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy