SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ॥१०६॥ मावश्यक-हारिभद्रीयवृत्तिः जिणचक्किदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४।। आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साही ॥ ३६८ ॥ (दारगाहा) गमनिका-'जिनचक्रिदशाराणां' जिनचक्रवर्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयु:पुराणि मातापितरौ यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः॥३६८॥ अवयवार्थ तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार: जारिसया लोअगुरू भरहे वासंमि केवली तुन्भे। एरिसया कह अन्ने ताया! होहिंति तित्थयरा?॥३८॥ (भाष्यम) व्याख्या-यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईदृशाः कियन्तोऽन्येऽत्रैव तात ! भविष्यन्ति तीर्थकराः ? इति गाथार्थः॥ ३८॥ अह भणइ जिणवरिंदो भरहे वासंमि जारिसो अहयं । एरिसया तेवीसं अण्णे होहिंति तित्थयरा ॥३६९॥ निगदसिद्धा॥ ते चैवंहोही अजिओसंभव अभिणंदण सुमइ सुप्पभ सुपासो।ससि पुप्फदंत सीअल सिज्जंसो सुपुज्जो अ॥३७०॥ विमलमणंतइ धम्मो संती कुंथू अरो अ मल्ली अ । मुणिसुन्वय नमि नेमी पासो तह वडमाणो अ ॥ ३७१ ॥ • भरते. + चेति. सुपासे. भावार्थः सुगम एव॥ अह भणह नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिसया कइ अण्णे ताया होहिंति रायाणो ॥३७२॥ गमनिका-अथ भणति नरवरेन्द्रो-भरतः, भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ ३७२ ॥ अह भणइ जिणवरिंदो जारिमओ तं नरिंदसहलो। एरिसया एकारस अण्णे होहिंति रायाणो ॥ ३७३ ॥ ___गमनिका-अथ भणति जिनवरेन्द्रो-यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूलः-सिंहपर्यायः, ईशा एकादश अन्ये भविप्यन्ति राजानः ॥ ३७३ ॥ ते चैतेहोही सगरो मघवं सणंकुमारो य रायसहूलो । संती कुंथू अ अरो होई सुभूमो य कोरव्यो ।। ३७४ ॥ णवमो अ महापउमो हरिसेणो चेव रायसहलो । जयनामो अ नरवई पारसमो बंभदत्तो अ ॥ ३७५ ॥ गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान्' तदभिधित्सुराह भाष्यकार:होहिंति वासुदेवा नव अण्णे नीलपीअकोसिजा।हलमुसलचकजोही सतालगरुडझया दो दो॥३९॥(भाष्यम्) व्याख्या-भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुडज्झया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-यस्त्राणि येषां ते तथाविधाः, * तादृशः. + हवइ. सियाह. यथासंख्यमेव हलमुशलचक्रयोधिनः--हलमुशल योधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः । वासुदेवाभिधानप्रतिपादनायाह तिविठू अ १ दिविट्ठ २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५। तह पुरिस पुंडरीए ३ दत्ते ७ नारायणे ८ कण्हे ९॥ ४० ॥ (भाष्यम्) निगदसिद्धा। अधुना बलदेवानामभिधानप्रतिपादनायाह अयले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५। आणंदे ६ णंदणे ७ पउमे ८, रामे ९ आवि अपच्छिमे ॥४१॥ (भाष्यम् ) निगदसिद्धा॥ वासुदेवशत्रुप्रतिपादनायाह आसग्गीवे १ तारय २ मेरय ३ महकेढवे ४ निसुंभे ५ अ। बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ॥ ४२ ॥ (भाष्यम्) निगदसिद्धा एव ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे अचक्कजोही सम्वे अ हया सचक्केहिं ॥४३॥(भाष्यम् ) गमनिका-एते खलु प्रतिशत्रवः-एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, सर्वे चक्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy