SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मावश्यक-हारिभद्रीयवृत्तिः इति । 'अन्यलिङ्गं साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्ग, किंतु तीर्थकर. लिङ्ग एवेति, प्राम्याचाराः-विषयाः परीपहा:-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीपहयोर्विधिर्वाच्यः, कुमारमत्रजितैविषया न भुकाः शेषैर्भुक्ताः, परीषहाः पुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । साम्प्रतं द्वितीयगाथागमनिका-तत्र जीवोपलम्भः सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलामः-पूर्वभवे प्रथमस्य द्वादशागानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पश्चमहाप्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महानतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात्। संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो षा सर्वेपामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छमस्था, का कियन्तं कालं छप्रस्थः खल्वासीदिति । तथा तपाकर्म-किं कस्येति वक्तव्यं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुस्पसमिति । तथा संग्रहो वक्तव्या, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । साम्प्रतं तृतीयद्वारगाथागमनिका-तम तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुफशब्दार्थ तब चातुर्वर्णः श्रमणस, तब ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं । गण इति-एकवाचनाचारक्रियास्थानां समु. दायो न कुलसमुदाय इति, ते व ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराम्-सूत्रकारः, ते च कस्य कियन्त इति षकव्यम् । तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गती प्रपतम्तमात्मानं धारयतीति धर्मः, तस्य उपायो-बादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायंस्तस्य देशका:-देशयन्तीति देशकाः, ते च सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुदेशपूर्वविदः। तथा पयोय इति-कः कस्य प्रव्रज्यादिपयाय इत्येततम्या तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च करय केन तपसा संजाता वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः ॥ २०९-२१०-२११ ॥ इदानीं प्रथमद्वारगाथाऽऽयदलावयवार्थप्रतिपादनायाहसव्वेऽवि सपंबुद्धा लोगन्तिअयोहिआ य जीएणं १ । सम्वेसिं परिचाओ संबछरिमं महादाणं ॥ २१२ ।। व्याख्या-सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात् , लोकान्तिकाः-सारस्वतादयः तद्बोधिताच जीतमितिकृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत-स्वयबुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिक महादानं-वक्ष्यमाणलक्षणमिति गाथार्थः ॥ २१२॥ रजाइचाओऽविय २पत्ते कोव कतिअसमग्गोको कस्सवही कोवाणण्णाओकेणसीसाणे४॥२१३॥ व्याख्या-राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः॥ २१॥ इदं च गाथाद्यमपि समासब्याख्यारुपमवगन्तव्यम् । साम्प्रतं प्रपश्चन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह* धर्मोपायस्य. सारस्सय १ माइचा २ वही ३ परुणा ४ य गहतोया ५ य। तुसिआ ६ अब्वाषाहा ७ अग्गिया ८ चेष रिहा ९ य ॥ २१४ ॥ गमनिका 'सारस्सयमादिञ्चत्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिका, 'वण्ही वरुणा यत्ति' प्राकृतज्ञेल्या वकारलोपात वापरुणाश्च, गर्दतोयाश्च तुषिता अन्याबाधाः 'अग्गिचा चेव रिहा यत्ति' अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तास्थ्यात्तद्यपदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना स्वेवम् । उकं च भगवत्याम्-“कहिणं भंते ! कण्हराईओ पण्णताओ?, गोयमा ! उप्पिं सर्णकुमारमाहिंदाणं कप्पाणं हेहि बंभलोए कप्पे रिहे विमाणपत्थडे, एस्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अडकण्हराईओ पण्णत्ताओ" एताश्च स्वभावत एवात्यन्तकृष्णा वर्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥२१४ ॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगजीवहिलं भयवं तित्थं पवत्तेहिं ॥२१५॥ गमनिका-एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोधयन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् !, सर्वे च ते जगजीवाश्च सर्वजगजीवाः तेषां हितं हे भगवन् ! तीर्थ प्रवर्तयस्वेति गाथार्थः ।। २१५ ॥ उक्तं संबोधनद्वारम्, इदानीं परित्यागद्वारमाहसंवच्छरेण होही अभिणिक्खमणं तु जिणवरिंदाणं। तो अत्थसंपयाणं पवत्तए पुग्वसूरंमि ॥२१॥ को भगवन् ! कृष्णराजयः प्रशलाः 1, गौतम ! उपरि समस्कुमारमाहेन्द्रयोः कल्पयोरपसाबको को रिछे प्रस्वटबिमाने, म भक्षाटकसम. चतुरबासंस्खानसंलिता बार कृष्णराजयः प्रशसा:. * संबन्धविवक्षा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy