SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भावश्यक-हारिभद्रीयवृत्तिः भावार्थः स्पष्ट एव, नवरं पूर्वसूर्य-पूर्वाहे इत्यर्थः, इति गाथार्थः ॥ २१६ ॥ कियत्प्रतिदिनं दीयत इत्याहएगा हिरण्णकोडी अटेव अणूणगा सयसहस्सा । सूरोदयमाईअं दिबइ जा पायरासाओ ॥२१७ ॥ गमनिका-पूर्वाधं सुगम, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं कालं यावत् ?-प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावत् इति गाथार्थः ॥ २१७ ॥ यथा दीयते तथा प्रतिपादयन्नाहसिंघाडगतिगचउकचच्चरचउमुहमहापहपहेसुं । दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥२१८ ॥ वरवरिआ घोसिल किमिच्छों दिजए बहुविहीओसुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे ॥ २१९॥ तत्र शृङ्गाटकं । त्रिकं । चतुष्क + चत्वरं * चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिवाटकं च त्रिकं चेत्यादिद्वन्दः क्रियते, तथा द्वारेषु पुरवराणांप्रतोलिषु इति भावार्थः, 'रण्यामुखानि' रण्याप्रवेशा'मध्यकारा'मध्या एष तेषु रथ्यामुखमध्यकारेविति गाथार्थः ॥ किं, वरवरिका घोष्यते-वरं याचध्वं वरं याच ध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति-का किमिच्छति ? यो यदिच्छति तस्य तदानं समयत एव किमिच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुकाफलप्रदानादिलक्षणा यस्मिंस्त * सिहाटक. + मध्या.. याचयध्वं. बहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं,देवदानवनरमहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः ॥ २१८-२१९ ॥ इदानीमेकैकेन तीर्थकृता कियद्रव्यजातं संघरसरेण दत्तमिति प्रतिपादयन्नाहतिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा एअं संवच्छरे दिण्णं ॥२२० ॥ भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः पश्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ॥ २२० ॥ ॥इति प्रथमवरवरिका ॥ साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहवीरं अरिहनेमिं पास मल्लिं च वासुपुज्वं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥ २२१ ॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं। न य इत्थिआभिसेआ कुमारवासंमि पव्वाआ ॥२२२॥ संती कुंथू अ अरो अरिहंता चेव चकवही अ ! अबसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ २२३ ॥ ___एताः तिस्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रबजिता इत्येवं भावनीया ॥ २२१-२२२-२२३ ॥ गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराहएगो भगवं वीरो पासोमल्ली अतिहि तिहि सएहिं । भयवं च वासुपुज्जोछहि पुरिससएहि निक्खंतो ॥२२४॥ उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ॥ २२५ ॥ * सीपाणिग्रहणराज्याभिषेकोभयरहिता इत्यर्थः । व्याख्या-एको भगवान् वीरः-घरमतीर्थकरः प्रव्रजितः, तथा पार्थो मल्लिश्च त्रिभित्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षडिः पुरुषशतैः सह निष्क्रान्तः-प्रबजितः। तथा उग्राणां भोगानां राजन्यानां च त्रियाणां च चर्भिः सहस्रैः सह ऋषभः, किम् ?, निष्क्रान्त इति वर्तते, शेषास्तु-अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उमादीनां च स्वरूपमधः प्रतिपादितमेवेति गाथार्थः ॥ २२४-२२५ ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्मुराहवीरो अरिहनेसी पासो मल्ली अ वासुपुज्जो अ । पढमदए पव्वाआ सेसा पुण पच्छिमययंमि ॥ २२६॥ निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाहसव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं। न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा५॥२२७॥ गमनिका-सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदृष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः। ततश्च य उपधिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विशतीति संख्या भेदेन वर्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति । गतमुपधिद्वारम् , इदानी लिङ्गद्वारं-सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्ग कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ २२७ ॥ इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy