________________
१३८
भर्तृहरिकृत-शतकत्रयम् वयं भैक्ष्यं भुंजीमहि । भिक्षायां भवं भैक्षमन्नं इत्यर्थः। रथ्यावासं वसीमहि रथ्या रथवाहा मार्गाः, रथ्यायां वासः तं वसीमहि । महीपीठे शयीमहि शयनं कुर्मः। अनेन गृहवासः सूचितः । ततः ईश्वरैर्धनिभिः सार्ध किं प्रयोजनम् । तेभ्यो वयमधिकतराः ॥ १॥
अथात्मज्ञानस्वरूपं प्रतिपादयन्नाह८. भो माः शृणुत स्फुटाक्षरमिदं वाक्यं शिवावाप्तये
सन्तः क्रीडनमिन्द्रियैः सुखलवप्राप्त्यर्थमभ्युद्युताः । संसारे तृणभङ्गभङ्गुरतरे लभ्यं न वाऽऽत्यन्तिकं
खात्मन्यस्ति समाधिनिर्मितसुखं यत् तत् स्वयं चिन्त्यताम् ॥८॥ भो माः ! सन्तः साधवः स्फुटाक्षरं व्यक्ताक्षरं लभ्यं न वात्यन्तिकं वात्मन्यस्ति समाधिनिर्मितसुखं यथा स्यात्तथा क्रीडनं इदं वाक्यं शृणुत । किमर्थम् ? । शिवावाप्तये ईश्वरप्राप्त्यर्थम् । कथंभूताः सन्तः । इन्द्रियैः सुखलवप्राप्त्यर्थ अभ्युद्युताः। इन्द्रियसुखेन कथमीश्वरप्राप्तिर्भवति? । संसारे च पुनः आत्यन्तिकं पदार्थ लभ्यं नास्ति । कथंभूते संसारे। तृणभङ्गभङ्गरतरे तृणवद् भङ्गुरशीले । अतः कारणात् स्वात्मनि समाधिविनिर्मितं यत् सुखं वर्तते तचिन्त्यताम् । आत्मनि परब्रह्मस्वरूपं चिन्त्यताम् । परब्रह्मस्वरूपा(पचिन्तना)दीश्वरप्राप्तिर्भवति न चेन्द्रियसुखात् किंचिदवाप्तिर्भवति इत्यर्थः ॥ ८७ ॥
अथ योगीन्द्रस्वरूपमाह९. अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ ८९॥ मम दिवसाः अहौ सर्प वा अथ वा हारे मुक्तावल्यां वा समदृशो यान्तु । समे सदृशे ( ? श्यौ ) दृशौ दृष्टिर् (?ष्टी) यस्य स तस्य । बलवति रिपौ वा अथ वा सुहृदि समदृशो यान्तु । मणौ रत्ने वा लोष्टे कर्करे समा यान्तु । कुसुमशयने वा अथवा दृषदि शिलायां समा यान्तु । तृणे अथ वा स्त्रैणे स्त्रीणां भावः समूहो वा स्त्रैणं तस्मिन् समा यान्तु । कथंभूतस्य मम । कचित् पुण्यारण्ये पवित्राटव्यां शिव शिव शिवेति प्रलपतो मम ॥ ८९ ॥
अथ विद्यावर्णनस्वरूपमाह१०. विद्या काचित् स्फुरति महती भास्वती चैतसाऽन्तर
__ यन्माहात्म्यात् तृणवदियती मन्यते यत् त्रिलोकीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org