________________
मायो
वैराग्यशतकाधिकश्लोकाः। अथ मनुष्यजन्मफलरूपमाह४. नो खड्नेन विदारिताः करिघटा नोद्वेजिता वैरिणसू
तन्वङ्गया विपुले नितम्बकटके नो क्रीडितं लीलया । नो जुष्टं गिरिराजनिर्झरझरे झाङ्कारि गङ्गापयो
मातुर्यौवनहारिणा वद सखे जातेन तेनापि किम् ॥ १६ ॥ हे सखे ! त्वं वद । तेन पुंसा जातेन किम् ? । न किमपीत्यर्थः । तेन कथंभूतेन ? । मातुर्यौवनहारिणा मातृयौवनचौरेण । तेन केन । येन खड्ङ्गेन करिघटा न विदारिताः । वैरिणो नोवेजिता न पराभूताः। अनेन शौर्यगुणो दर्शितः । तन्वङ्गया विपुले नितम्बकटके विशाले कटीतटप्रदेशे नितम्बस्थले लीलया नो क्रीडितम् । अनेन कामस्वरूपः शृङ्गारो दर्शितः। येन गङ्गापयो नो जुष्टं नो प्रीत्या सेवितम् । कस्मिन् ? । गिरिराजनिझरझरे गिरिराजो हिमाचलः तस्य निर्झरास्तेषां झरो हृदः तस्मिन् । अनेन धर्मः सूचितः । येनार्थत्रयं न साधितं स पुमान मातृयौवनहारी मातुः क्लेशकारकः ॥ १६ ॥
अथोपशमक्षमास्वरूपं प्रतिपादयति-- ५. ददतु ददतु गालीलिव(?म)न्तो भवन्तो
वयमपि तदभावाद् गालिदानेऽप्यशक्ताः । जगति विदितमेतद् दीयते विद्यमानं __ददतु शशविषाणं ये महात्यागिनोऽपि ॥ २ ॥
भवन्तो गालीः कर्मतापन्ना ददतु ददतु । भवन्तो गालिव(?म)न्तो गालिधनाः। अपि निश्चितं वयं गालिदाने अशक्ताः असमर्थाः । कुतः ? । तदभावात् गाल्यभावात् । जगति विश्वे एतद् विदितं ज्ञातम् । यद् विद्यमानं दीयते । ये महात्यागिनोऽपि शशविषाणं शशशृङ्गं ददतु । परमविद्यमानं कथं ददतु ॥ २॥
अथ भिक्षुस्वरूपमाह श्लोकद्वयेन६. ग्रामे ग्रामे कुटी शून्या भैक्षमन्नं गृहे गृहे। ____ मार्गे मार्गे जरद् वस्त्रं वृथा दैन्यं नृपे नृपे ॥ ३ ॥
ग्रामे ग्रामे शून्या कुटी । भैक्ष्यं ( ? क्षं) भिक्षायां भवम् अन्नं गृहे गृहे विद्यते । मार्गे मार्गे जरत् जीर्ण वस्त्रमस्ति । नृपे नृपे राज्ञि राज्ञि कथं वृथा दैन्यं करोषि ॥ ३ ॥
तदे( ! मे )वार्थ वदति७. भुञ्जीमहि वयं भक्ष्यं रथ्यावासं वसीमहि ।
शयीमहि महीपीठे कुर्वीमहि किमीश्वरैः ॥ १॥
१८ शतकत्र० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org