________________
भर्तृहरिकृत-शतकत्रयम् अन्यजनाश्रितैर्दोषैर्वयमपटवो जाताः स्म इत्यद्भुतमाश्चर्यम् । यस्य दोषो भवति स एवापटुर्भवति । अत्र तु दोषस्तस्याः वयं अपटवः पीडिताः । कथम् ? । सा बाला वयमप्रगल्भमनसः। अप्रगल्भं अधैर्य मनो येषां ते अप्रगल्भमनस इत्यनेन दोषस्तस्याः । पुनः सा स्त्री वयं कातराः कामवैक्लव्याद् । या स्त्री सैव कातरा भवितुं युक्ता । सा पीनोन्नतिमत् पयोधरयुगं [कुच]कुम्भयुगलं धत्ते वयं सखेदाः श्रमयुक्ताः । श्लेषः- या कुम्भयुगं दधाति श्रमस्तस्या एवं भवति । सा गुरुणा जघनस्थलेन नितम्बेन आक्रान्ता । वयं गन्तुं न शक्ताः तदवलोकनरसात् । श्लेषश्चात्र- यो ह्याक्रान्तो भवति स एवं गन्तुं न शक्नोति । अतो दोषैरन्यजनाश्रितैर्वयं पाटवं त्याज्यि( ? जि) ताः । श्लेषालंकारः ॥१॥
उपमालंकारेण स्मरबलं दीपयति२. स्तनशैलसन्निधाने त्रिवलिनदीतीरकोटरे तन्व्याः ।
जगदपि नग्नीविहितं तथापि पञ्चेषुचौरेण ॥ २ ॥
तथापि पञ्चेषुचौरेण स्मरतस्करेण जगदपि विश्वमपि नग्नीविहितम् अनमं नग्नं क्रियते इति नग्नीकरणम् । तथापीति कथम् ? । तन्व्याः स्तनशैलसन्निधाने स्तनपर्वतसमीपे । पर्वतसन्निधाने चौरो लगति। [त्रिवलिनदीतीरकोटरे] त्रिवली उदररेखा सैव नदी तस्यास्तीरं तदेव कोटरं गहनं तत्र । अन्यचौरस्थानमपीदृक् भवति ॥ २ ॥
अथात्मनिन्दास्वरूपमुपदेशतः प्राह३. क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवायुतपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं
तत्तत् कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः॥ १५ ॥ मुनिभिस्तापसैर्यदेव यत् कर्म कृतं तदेव अस्माभिः कृतम् । पुनः तैस्तैः फलैर्वश्चिताः वयम् । फलं न प्राप्तम् । कथम् । क्षमया न क्षान्तम् । क्षमाप्रधानतया परेषां किंचित् कृतं विरूपादि न क्षान्तं न क्षमितम् । मुनिभिः क्षमया क्षम्यते इति । गृहोचितसुखं संतोषतो न त्यक्तम् । अप्राप्तिवशात् त्यक्तम् । तत् मुनिभिः संतोषेण त्यज्यते । दुःसहशीतवायुतपनक्लेशाः सोढाः । दुःसहा ये शीतवायुसूर्यतापक्लेशाःते] क्षमिताः । परं तपो न तप्तं तपः शुद्धं न कृतम् । अहर्निशं नियमितैः प्राणैर्नियमयुक्तैः प्राणैर्वित्तं धनं ध्यातं परं शंभोः पदं न ध्यातम् । सनियमानां वित्तध्यानेन किं प्रयोजनं चेन्महेश्वरपदं न मर्यते । अत एव मुनिभिर्यदेव क्रियते अस्माभिस्तत्तत् कर्म कृतं येन वयं पुण्यफलैर्वञ्चिताः। किमपि फलं नाप्तम् । कायक्लेश एव संजातः विपरीतभावत्वात् ॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org