________________
शृङ्गारशतकाधिकश्लोकाः।
૨૩૬ इदानीमिन्द्रियदुर्जयत्वमाह१२. विश्वामित्र - परासरप्रभृतयो ये चाम्बुपर्णाशनासू
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्
तेषामिन्द्रियनिग्रहः कथमहो दम्भैर्जगद् वञ्च्यते ॥ १० ॥ विश्वामित्र - परासरादयो ये मुनीन्द्रास्तेऽपि मनोहरं स्त्रीमुखकमलं दृष्ट्वा मोहं कामविकारं प्राप्ताः । एतेन स्त्रीसङ्गाद् विश्वामित्रादयः पतिताः। किंलक्षणास्ते ? । अम्बुपत्रभोजिनोऽपि । [पुनः] पयोदधियुतं सघृतं आहारं ये मानवा भुञ्जन्ति तेषामिन्द्रियनिग्रहः कथं स्यात् । एतेन बलिष्ठाहारिणां कथमिन्द्रियजयो भवति । अहो इति खेदे । जगद् विश्वं दम्भैः कपटैर्वच्यते विप्रतार्यते । विश्वामित्रश्च परासरश्च विश्वामित्र - परासरौ तौ प्रभृतिः आदिर्येषां ते ॥१०॥
न चायमेकान्तवादः । आहारो न कारणम् । किं तु स्वसामर्थ्यमेव । तन्निरूपयति१३. सिंहो बली द्विरद -शूकरमांसभोजी
__ संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि
कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥१०१॥ सिंहो बली बलिष्ठः । कथंभूतः ? । द्विरदश्च शूकरश्च द्विरद-शूकरौ तयोर्मासं भुञ्जती( ? भुनक्ती )ति द्विरदशूकरमांसभोजी । किलेति सत्ये । सः संवत्सरेण एकवारं रतिं एति संभोगं प्रति याति । कामं सेवते । खराश्च ते शिलाकणाश्च तान् भुञ्जती(? भुनक्ती)ति खरशिलाकणभोजनोऽपि पारापतः अनुदिनं दिनं दिनं प्रति कामी भवति कामाकुलः स्यात् । हे प्रतिवादिन् ! त्वं वद अत्राहारस्य को हेतुः किं कारणम् ? । एतेन आहारो न विषयहेतुः । पारापतादीनामाहारनैरस्यं बहुकामित्वं च सिंहादीनां बलिष्ठाहारत्वमल्पकामित्वं ज्ञेयम् ।। १०१॥
(३) वैराग्यशतकगतानि अधिकपद्यानि । अथ वैराग्यशतटीकायां त्यक्तकाव्यानां टीका लिख्यते। अन्यजनदोषेण दूषितं श्लेषमाह१. सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
- सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org