________________
वैराग्यशतकाधिकश्लोकाः ।
किं तेषां स्याद् द्रविणकणिकालेशमात्रे स्पृहाऽसौ
या दैन्यस्य प्रथयति चयं राजराजे मुहूर्तम् ॥ ९० ॥
अन्तश्चेतसि काचित् अनिर्वचनीया महती विद्या तत्त्वज्ञानरूपा स्फुरति जागर्ति । कथंभूता विद्या ? । भास्वती प्रभायुक्ता महिमावती स्यात् । यन्माहात्म्यात् यस्या माहात्म्यं यन्माहात्म्यं तस्मात् विद्यानुभावतः । इयतीं त्रिलोकीं तृणवन्मन्यते त्रिलोकीं तृणसमां पश्यति । परब्रह्मवतः सर्व जगत् तृणतुल्यम् । तेषां योगिनां द्रविणकणिकालेशमात्रे किमसौ स्पृहा वाञ्छा स्यात् । न कापि स्पृहा भवेत् । द्रविणस्य कणिका तस्या लेशमात्रं द्रविण ० तस्मिन् । या धनस्पृहा राजराजे धनदेऽपि मुहूर्त यावद् दैन्यस्य चयं प्रथयति विस्तारयति । कोर्थः ? । धनदेऽपि धनवाञ्छा न क्षीणास्ति । सोऽपि धनाय स्पृहयति । ततः परब्रह्मरूपा विद्यैव श्रेष्ठा ॥ ९०॥ आत्मनिन्दास्वरूपं लोभपरिहारेणाह
११. नो चिन्तामणयो न कल्पतरवो नाष्टौ महासिद्धयस् तावद्देहवशाः परोपकृतयो नास्माभिरप्यर्जिताः । नेदं मज्जति मानसं च चपलं ब्रह्मामृताम्भोनिधौ
१३९
धिधिक कर्मकुटीमिमां तदपि न त्यक्तुं वयं शक्नुमः ॥ १४ ॥ अस्माभिश्चिन्तामणयो नो अर्जिताः कल्पतरवो नार्जिताः । अष्टौ महासिद्धयोऽपि न अर्जिताः । तावत् प्रथमं परोपकृतयो न कृताः । कथंभूताः परोपकृतयः ? | देहवशाः देहाधीनाः । देहेन परोपकृतयो भवन्ति ता अपि न कृताः । च पुनरिदं मानसं चपलं ब्रह्मामृताम्भो - निधौ ज्ञानसुधार्णवे न मज्जति । तस्मात् इमां कर्मकुटीं धिक् [ धिक् ] । तदपि वयं इमां त्यक्तुं न शकुमः न समर्थाः । अनेन देहेन महाऋद्धयुत्पादनं न जायते, देहोऽपि त्यक्तुं न शक्यः अनेनेहलोकः परलोकश्च न साध्यते ॥ १४ ॥
पुनरपि ज्ञानस्वरूपोपदेशमाह
१२. आघ्राय पुस्तकं धन्याः सर्व विद्म इति स्थिताः ।
शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयम् ॥ १५ ॥
ये पण्डिता एवंविधास्त एव धन्याः । ये पुस्तकं आघ्राय गन्धवद् गृहीत्वा सर्व विद्म इति कृत्वा स्थिताः । वयं शतकृत्वोऽपि शतवारानपि शृण्वन्तोऽपि न विद्मो न जानीमोऽत एव जडाः । अनेन स्वनिन्दा ॥ १५ ॥
अथ मृगोपदेशेन सज्जनस्वरूपं वर्णयन्नाह
१३. सारं सारङ्ग रैङ्गत्तरुणतृणशिखाखण्डखादेन खेदं
क्षौघं पी (?) त्वा सलीलं सलिलमनु पिबेद् योषिता पीतशेषम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org