________________
प्रकाशः]
सिद्धराजादिप्रबन्धः। विपणिनमाकार्य' 'निशि स्कन्धन्यस्तहस्तभारेण ग्रीवा बाधते' इत्यभिहितस्तत्कालोत्पन्नमतिविज्ञपयामास-'देव! आसमुद्रान्तभूभारे स्कन्धाधिरूढे यदि स्वामिनः स्कन्धो न बाधते तदा तृणमात्रस्य निर्जीवस्य मम पण्याजीवस्य भारेण स्वामिनः का स्कन्धबाधे'ति तदीयौचित्यविज्ञपनेन प्रमोदवान्नृपः पारितोषिकं ददौ।
॥ इति चणकविऋयिवणिजः प्रबन्धः॥ ११३) अथान्यस्यां निशि नृपतिः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहारिणो हफे बहून् प्रदीपानालोक्य किमेतदिति पृष्टः स लक्षप्रदीपस्तान् विज्ञपयामास । असौ धन्यः 'खसौधमध्यमध्यास्य व्यतीतक्षणदाक्षणः, स धन्यमानी तं सदः समानीयेत्यादिदेश'एतेषां सदा प्रदीपानां प्रज्वालनेन भवतः सदा प्रदीपनम् , तद्भवदीयवित्तस्य कियन्तो लक्षाः? इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षानिवेदयामास । तदनु तदनुकम्पाकम्पमानमानस: 10 खकोशात्षोडशलक्षान् प्रसादीकृत्य तत्सौधे कोटिध्वजमध्यारोपयामास ।
॥ इति षोडशलक्षप्रसादप्रबन्धः॥ ११४) अथान्यस्मिन्नवसरे राज्ञा' वालाकदेशदुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः स्थापितः। तच्छासने षड्डत्तरशतं ग्रामाः। अथ श्रीसिद्धराजः कदाचित् सिंहभीतैर्विप्रैर्देशमध्यनिवासं याचितः साभ्रमतीतीरवर्तिनं आसांबिलीग्राम तेभ्यो ददौ । तथा तेषां" सिंहपुराधान्या-15 न्यादाय गच्छतामागच्छतां च दाणमोक्षं चकार ।
११५) अथ राज्ञा" सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीग्रामपरिसरमाश्रित्य तदीयान् पट्टकिलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहनसेजवाली स्थापनिकाथं समर्पयत"। अथ नृपतौ पुरतः प्रयाते तैः सर्वैरपि सम्भूय तदङ्गानि प्रत्येकं विदार्य यथोचितं" सर्वेऽपि वस्त्रसौधे निदधिरे"।अथ दिग्यात्रीप्रत्यावृत्तो नृपस्तां स्थापनिकां तेभ्यो याचमानस्तद्वौकितानि" भि-20 नानि तदङ्गानि पश्यन् सविस्मयं किमेतदित्यादिशंस्तैर्विज्ञपयांचक्रे-वामिन् ! एकः कोऽप्यस्य वस्तुनो गोपनविधौन प्रभूष्णुः।मलिम्लुचानलादीनां कदाचिदपाये सजायमाने सति काप्रभोरत्तरं कर्तेति विमृश्यैतदस्माभिर्व्यवसितम्।' तदा राजा विस्मयस्मेरमनास्तेषांब्रूच इति बिरुदं ददौ ।
॥ इति वाराहीय-ब्रूचप्रबन्धः ।। ११६) अथ कदाचिच्छ्रीजयसिंहदेवो नृपतिर्मालवकं विजित्य प्रत्यावृत्त उझाग्रामे निवेशित-25 स्कन्धावारस्तैामीणैः प्रतिपन्नमातुलैर्दुग्धपरिपूर्णाऽऽवाहादिभिरुचितैः परितोष्यमाणस्तस्यामेव निशि गुप्तवृत्त्या तदुःखसुखजिज्ञासुः कस्यापि ग्रामण्यो गृहे गतः।गोदोहादिव्याकुलतायामपि तेन 'कस्त्वम् ?' इति पृष्टः 'श्रीसोमेश्वरस्य कार्पटिकोऽहं महाराष्ट्रदेशवास्तव्य' इति तस्मै न्यवेदयत् । तेन च नृपतेः पार्श्वे महाराष्ट्रदेशस्य तन्महाराजस्य च गुणदोषवृत्तान्ते पृच्छयमाने स नृप
1P वणिजमाहूय। 2 AD भिहिते। 3 BP धराभारे। 4 P विक्रयवणिक् । + एतदन्तर्गता पंक्तिः श्लोकरूपा प्रतिभाति परमुत्तरार्दै श्लोकलक्षणाभावात् गद्यरूपा एवेयमिति। 5P विहाय 'प्रसाद' नास्ति । 6 B प्रस्तावे। 7 B राजा। 8 AD कदाचिद्वालाकदेशे। एतद्वाक्यस्थाने P प्रतौ 'अथ कदाचिद्वालाकदेशदुर्गपर्वतभूमौ' एतादृशं वाक्यं विद्यते। 9D सिंहनादैीतैः। 10 B असांबिली; D आशांबिली; Da-b आशाम्बली। 11 P विहाय 'तथा' नास्ति । 12 BD तेषां च । 13 P सर्वधान्यानि। 14 B नास्ति 'आगच्छतां'। एतदन्तर्गतं वर्णनं A आदर्श सर्वथाऽनुपलब्धम् । 15 BP नास्ति । 16 A समर्पिता। 17 D यथावांछितं । 18 P विहाय नास्त्यन्यत्र। 19 BP निदधुः। 20 D यदा। 21 AD तड्डौकितभिः। 22 D Oम्लुचादिभ्यः। 23 D ग्रामीणस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org