________________
प्रबन्धचिन्तामणिः।
[ तृतीया परीक्ष्य तल्लोभात्तं मूल्येन क्रीत्वा मणिकारपात्तिमुत्तेजितं निर्माप्य श्रीसिद्धराजस्य मुकुटघटनाप्रस्तावे लक्षमूल्यद्रव्येणं तं नृपायैव ददौ । तेन नीवीधनेन मञ्जिष्ठास्थानकानि कदाचिदागतानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचोरभयात्तदन्तर्निहिताः काश्चनकम्बिकाः पश्यन् सर्वेभ्यः स्थानकेभ्यस्ताः सञ्जग्राह । तदनन्तरं सर्वनगरमुख्यः श्रीसिद्धराजमान्यो जिनशासन5 प्रभावकः श्रावकः प्रतिदिनं प्रतिवर्ष यदृच्छया जैनमुनिभ्योऽन्नवस्त्रादि ददानो गुप्तवृत्त्या नव्यानि धर्मस्थानानि जीर्णानि च स्वप्रशस्तिरहितानि स्वदेशेषु विदेशेषु च समुद्दधार । १६७. वल्लीच्छन्नद्रुम इव मृत्माच्छादितसमस्तवीजमिव । प्रायः प्रच्छन्नकृतं सुकृतं शतशाखतामेति ॥
॥इति वसाह आभडप्रबन्धः ॥ १११) अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरं तितीर्घः प्रत्येकं सर्वदेशेषु' सर्वदर्शनेषु 10 देवतत्वधर्मतत्त्वपात्रतत्त्वजिज्ञासया पृच्छयमानेषु निजस्तुतिपरनिन्दापरेषु सन्देहदोलाधिरूढ
मानसः श्रीहेमाचार्यमाकार्य विचार्य कार्य पप्रच्छ । आचार्यस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्येति पौराणिकनिर्णयो वक्तुमारेभे-'यत्पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य संग्रहणीसात्कृतसर्वस्वः सदैव" पूर्वपढ्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छयमाने
कश्चिद्गौडदेशीयो 'रश्मिनियन्त्रितं तव पतिं करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीय भेषजमुपनीय 15 भोजनान्तर्देयमिति भाषमाणः स" गतः। कियदिनान्ते समागते क्षयाहनि तस्मिंस्तथा कृते स प्रत्यक्षां वृषभतां माप । सा च तत्प्रतीकारमनवबुध्यमाना *विश्वविश्वाक्रोशान्सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यंदिने दिनेश्वरकठोरतरनिकरप्रसरतप्यमानापि* शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्यापि तरोर्मूले" विश्रान्ता निर्भरं' विलपन्ती, आलापं नभस्यकमाँच्छुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो यथावस्थितं 20 निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निबन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्किता निर्माय तन्मध्यवर्तिन औषधाकुरानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाप्यज्ञातखरूपेणौषधाङ्कुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप। यथा तदज्ञातखरूपोऽपि भेषजाङ्कुरः समीहितकार्यसिद्धिं चकार; तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरि
ज्ञानं सभक्तिक सर्वदर्शनाराधनेनाऽविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः।' इति हेम25 चन्द्राचायः सर्वदर्शनसम्मते निवेदिते सति श्रीसिद्धराजः सर्वधर्मानारराध"।
॥इति सर्वदर्शनमान्यताप्रबन्धः॥ ११२) अथान्यदा निशि कर्णमेरुप्रासादे नृपतिर्नाटकं विलोकयन् केनापि चणकविक्रयकारिणा" वणिगमात्रेण स्कन्धे न्यस्तहस्तः तल्लीलायितेन चित्रीयमाणमानसः भूयो भूयस्तद्दीयमानं सक
पूरबीटकं परितोषितो गृह्णन् नाटकविसर्जनावसरेऽनुचरैस्तनेहादि सम्यगवगम्य सौधमासाद्य 30 सुष्वाप। प्रत्यूषे भूपः कृतप्राभातिककृत्यः सर्वावसरेऽलङ्कतसभामण्डपस्तं चणकविक्रयकारिणं
1AD सिद्धराजमु०। 2 Pलक्षद्रव्यमूल्येन; A मूल्येन द्रव्येण। 3 नास्त्येतत्पदं P1 4 DP साह; BDe वसा । 5 B आभडस्य उत्पत्तिकथाप्रबन्धः; P आभडस्य उत्पत्तिप्रबन्धः। 6 BP तितीर्षया। 7P नास्तीदं पदम्। 8 B नास्ति । 9P 'दोलाधिरूढः' इत्येव । 10 P 'पूर्व' नास्ति । 11 P सर्वदेव। 12 स गतः' नास्ति BPI * एतदन्तर्गतः पाठः B आदर्श नोपलभ्यते। 13 P गोरूपं । 14 B तस्मूले; P तरोस्तले। 15 P नास्ति । 16 P 'अकस्मात्' नास्ति । 17 P विधाय। 18 P मानवतां। 19 D सन्माने। 20 Doधर्माराधनां चकार । 21 P रात्रौ। 22 D विहाय नान्यनेदं पर यते। 23 AD न्यस्तहस्तेन । 24 B भूपतिः, P नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org