________________
४४
प्रबन्धचिन्तामणिः।
[ द्वितीयः ६५) *अथ मयूर-वाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्वाणपण्डितो जामिमिलनाय तद्हं गतो निशि द्वारप्रसुप्तो भावुकेनानुनीयमानां समानां जामिं निशम्य तत्रं दत्तावधान इत्यशृणोत्-*
१०९. गतप्राया रात्रिः कृशतनु शशी! शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव ।। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहों
-इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य,
कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् ॥ इति भ्रातृमुखात्तुर्य पदमाकर्ण्य क़ुद्धा सा सत्रपा च 'कुष्ठी भवेति तंभ्रातरं शशाप।इति पतित्र10 तावतप्रभावात्तदात्वप्रभूतप्रसूतिरोगःप्रातः शीतरक्षापिहिततनुपसभायामायातो मयूरेण मयू
रेणेव कोमलगिरा 'वरकोढी" इति तं प्रति प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं प्रेक्ष्यमाणस्तेन प्रस्तावान्तरे देवताराधनोपायश्चेतस्यवारयांचक्रे' । बाणस्तु सत्रैपस्तत उत्थाय नगरसीमनि स्तम्भमारोप्य खादिराङ्गारपूर्णमधःकुण्डं विधाय स्तम्भाग्रवर्तिनि सिक्के खयमधिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिककपदं क्षुरिकयाँ छिन्दन् पञ्चभिः काव्यैस्तेन पञ्चसु पदेषु 15 छिन्नेषु सिककाग्रविलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः सञ्जातजात्यकाञ्चनका
यकान्तिः, अन्यस्मिन्नहानि सुवर्णचन्दनावलिप्ताङ्गः संवीतसितदिव्यवसनः समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसादं मयूरे विज्ञपयति सति बाणो बाणनिभया गिरा तं मर्मणि विव्याध । 'यदि देवताद्याराधनं सुकरं तदा त्वमपि किमपीक चित्रमाविःकुरु' इत्यभिहिते तेन
मयूरेण तं प्रति प्रतिवचः सन्दधे । 'निरामयस्य किमायुर्वेदविदा; तथापि तव वचः सत्यापयितुं 20 निजपाणी पादौ च छुर्या विदार्य, त्वया षष्ठे काव्ये सूर्यः परितोषितः, अहं तु पूर्वस्य काव्यस्य षष्ठेऽक्षरे भवानी परितोषयामीति प्रतिश्रुत्य सुखासनसमासीनश्चण्डिकाप्रासादपश्चाद्भागे निविष्टो 'मा भाङ्क्षीविभ्रम मिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यग्रप्रथमानवपुःपल्लव: खसम्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता महेन पुरं प्राविक्षत् । 25 ६६) एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैपोऽभिदधे-'यदि जैनमते कश्चिदीदृक्प्रभावः प्रभवति तदा सिताम्बराः खदेशे स्थाप्यन्ते नों चेजवान्निास्यन्ते' इति तद्वचनादनु श्रीमानतुङ्गाचार्यास्तत्राकार्य 'निजदेवतातिशयं कमपि दर्श
__ * एतच्चिद्वान्तर्गतकथनस्थाने Pb आदर्श 'अथ मयूरबाणौ पण्डितौ स्तः । मिथः स्पर्द्धमानौ राजमान्यौ कदाचिद् बाणो यामिगृहे मिलनाय गतः । बहिस्थोऽशृणोत्' एवरूपं संक्षिप्तं कथनं लभ्यते। 1 P समन्यु; AD नास्ति । 2 P नास्ति । 3 BP क्रुधमिमां। 4 Pउच्चार्यमाणामालोक्य; Pa आदर्श एतद्वाक्यं किञ्चिद् भिन्नप्रकारेण लिखितं लभ्यते, यथा-'पदत्रयीमाद्यां भूयोभूय उदीर्यमाणामाकर्ण्य तुर्य पदं पपाठ'। 5 Pa तद्भातृः। 6P सापत्रमा क्रुद्धा कुष्टी भवेति; Pb क्रुधा शशाप्र कुष्ठी भवेति । 7 B प्रसूतरोगः; D तदारमप्रभृतिरोगोऽभूत्। 8 P सभामागतो। 9 D वरकोडी। 10 D 'प्रति' नास्ति । 11 Pa प्राकृतगिरा। 12 Pa ततः, BP नास्ति । 13 Pa पायं। 14 Pa चिन्तयामास । + B आदर्श इदं वाक्यमेतादृशं-'प्रेक्षमाणः सभासमक्षं विनष्टवपुष ज्ञापयांचकार। 15 ABD सापत्रपः। 16 DP छुरिकया। 17 D 'कान्ति' नास्ति । 18 B . स्वच्छ. दिव्यः। 19 ABD 'सति' नास्ति । 20 BPa नास्ति। 21 A राधनाचं; D देवताराधनं । 22 PPa 'किमपि' नास्ति। 23 AD निजपादौ च पाणी। 24 PPa नो वा जबा। 25 AD तद्वचनानन्तरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org