________________
प्रकाशः] भोज-भीमप्रबन्धः।
४३ ६४) अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं पाकायाशनमुपनीयं *सूर्यपर्वणि जलाश्रये कङ्गुणीतैलमासाद्य गृहमुपेत्य तद्वमनाद्विपन्नमालोक्य सद्रव्यमिति उत्पद्यमानकलङ्कशङ्काकुलतया पञ्चत्वाय तदेशनमेव बुभुजे*। तस्मिन्स्थिरे प्रादुर्भूतप्रभूतप्रातिभवैभवा विद्यात्रयीं ईषत्समभ्यस्य नवयौवनया विजयाभिधानया विदुष्या स्वमुतया सा श्रीभोजस्य सः शृङ्गारयन्ती श्रीभोज प्रति प्राह१०६. शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि त्यागस्तकुंकवाञ्छितावधिरियं क्षोणी समुद्रावधिः ।
श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रणामावधिः श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः॥ अथ विनोदप्रियेण राज्ञा कुचवर्णनायानुयुक्ता विजया प्राह१०७. उन्नाहश्चिबुकावधिर्भुजलता मूलावधिः सम्भवो विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः। .
___ वर्णः वर्णकषावधिः कठिनता वज्राकरक्ष्मावधिस्तन्वयाः स्तनमण्डले यदि परं लावण्यमस्तावधिः ॥ 10 इति तद्वर्णनाकर्णनात्तेनार्द्धकविना राज्ञा
[७५] { किं वर्ण्यते कुचद्वन्द्वमस्याः कमलचक्षुषः।
तयोक्तम्-सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥ राज्ञा-[७६] प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः कथमलिकुलनीलैः सैव दिग् सम्प्ररुद्धा । तयोक्तम्-प्रथमविरहखेदम्लायिनी यत्र बाला वसति नयनवान्तैरश्रुभिधौतवक्त्रा ॥} 15 १०८. सुरताय नमस्तस्मै जगदानन्ददायिने । इति राज्ञो प्रोक्ते, आनुषङ्गि फलं यस्य भोजराज! भवादृशाः॥
इति विजयवाक्ये विजयोक्ते" राजा सत्रपमधोमुखं तस्थौ । {तितो राजा तां भोगिनी चक्रे । अन्यदा तया जालान्तरे चन्द्रकरस्पर्शेऽपाठि[७७] अलं कलङ्कशृङ्गार! करस्पर्शनलीलया । चन्द्र ! चण्डीशनिर्माल्यमसि न स्पर्शमर्हसि ॥} 20 [७८] "क्षणं क्षीणास्तारा नृपतय इवानुद्यमपरा असच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।।
__अभूत् पिङ्गा प्राची रसपतिरिव प्राश्य कनकं न शोभन्ते दीपा द्रविणरहितानामिव गुणाः ॥ [७९] "विरलविरलीभूतास्ताराः कलौ स्वजना इव मन इव मुनेः सर्वत्रापि प्रसन्नमभूनमः । अपसरति च ध्वान्तं चित्तात् सतामिव दुर्जनो व्रजति च निशा क्षिप्रं लक्ष्मीनिरुद्यमिनामिव ॥
इत्यत्र बहु वक्तव्यं परंपरया तत्तुं ज्ञातव्यम्। 25 ॥ इति शीतापण्डिताप्रबन्धः॥
___1 P वैदेशिकं । 2 Pb पुरुषं। 3 D पुस्तके एतद्वाक्यं नास्ति । * एतद्वितारकान्तर्गतपाठस्थाने Pb आदर्श एतादृशः पाठ:-'कणतैलमिश्रा खिचडिकामास्वाध विपन्नमालोक्य सद्गव्योऽयमनया निपातित इत्युत्पद्यमानकलङ्कशङ्कया राजविडम्बनाभयाकुलतया पञ्चत्वाय तदनं सापि बुभुजे'; Db आदर्श पुन:-'कार्पटिकं पाकाय तस्या गृहेऽन्नं कारयित्वा निशि घृतकूपिकव्यत्ययेन कांगुणीतैलं परिवेषितं तं विपन्नं विलोक्य तदशममेव बुभुजे' एतादृशः पाठः प्राप्यते। 4 B तहमनमेव। 5 Pb स्थिरीभूते । 6 D 'प्रभूत' नास्ति । 7 D.वयीं रघुवात्स्यायनकामशास्त्रचाणाक्यनीतिशास्त्रं ईषत् ।। 8 Pa शिरः। 9D नियुक्ता। 10 DPa कथावधिः। 11 Pa कुचः। 12 D यदपरं । 13 D'कर्णना' नास्ति । एतत् कोष्ठकान्तर्गताः पंक्तयः केवलं D पुस्तके एव लभ्यन्ते । 14 D 'राज्ञा' नास्ति । 15 DP नास्ति । 16 AB विजयोदिते। एतत्कोष्ठकान्तर्गतं कथनं केवलं D पुस्तके लभ्यते । इदं पद्यद्वयं केवलं P भादशैं लभ्यम् । 17 PPa नास्ति; B तत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org