________________
15
४२ प्रबन्धचिन्तामणिः।
[द्वितीयः [७०] शैलैबन्धयति स वानरहृतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वस्तु प्रस्तुतमेव किंचन वयं ब्रूमस्तथाप्युच्चकैर्लोकोऽयं हसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः॥ एकदा, राजन् ! महाभारती कथा श्रूयतामित्युक्ते पण्डितं प्रति परमार्हतेन तेन प्रत्युक्तम्- [७१] कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नेतारः किल पश्च गोलकसुताः कुण्डाः स्वयं पाण्डवाः।
तेमी पश्च समानजातय इति ख्यातास्तदुत्कीर्तनं पुण्यं वस्त्ययनं भवेद्यदि नृणां पापस्य काऽन्या गतिः॥} • ६१) शोभनमुनेस्तु शोभनचतुर्विंशतिकास्तुतिः प्रतीतैव । {*"अधुना किमपि प्रबन्धादिक्रियमाणमास्ते ? नृपेणेत्युक्ते धनपालः प्राह
[७२] आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती । तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥ + नृपेण गोशतं दापितम् । नृपेण 'गावो लब्धाः ?' इत्युक्ते10 [७३] नेव सयं तं पुजइ नेव सयं तं पि गोरुयं इक्कं । नरवर वीसंताओं वीसं ताओ गिहं इन्ति ॥
इति धनपालोक्तिः } [७४] विचनं धनपालस्य चन्दनं मलयस्य च । सरसं हृदि विन्यस्य कोऽभून्नाम न निर्वृतः ॥ ["इतश्च शोभनः स्तुतिकरणध्यानादेकस्या गृहे त्रिर्गमनात्तस्या एव दृष्टिदोषान्मृतः, प्रान्ते निजभ्रातुः पार्थात् ९६ स्तुतीनां वृत्तिं कारयित्वाऽनशनात्सौधर्मे गतः ।]
॥इति धनपालपण्डित-प्रबन्धः॥ ६२) अथ तन्नगरनिवासी कोऽपि द्विजः केवलभिक्षामात्रवृत्तिः कस्मिन्नपि पर्वणि लानव्याकुले सकलेऽपि नगरलोकेऽलब्धभिक्षया रिक्तताम्रपात्र एवायातः-इति ब्राह्मण्या निर्भत्स्य॑मानः सायमानकलहे तां प्रति प्रदत्तप्रहारः आरक्षपुरुषैः संयम्य राजमन्दिरे नीयमानो राज्ञा पृष्टः सन्
१०३. अम्बा तुष्यति न मया न सुषया सापि नाम्बया न मया ।
___ अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥ इमं श्लोकं पपाठ । तदर्थं पण्डितेष्वनववुध्यमानेषु राज्ञा खमनीषिकया तदभिप्रायं प्रायः समुपलभ्य, तस्मै लक्षत्रये दापिते सति श्लोकार्थं कलहमूलं दारियमेव नृपो व्याचख्यौ।
६३) अथान्यदा सर्वाण्यपि दर्शनानि एकत्राहूय मुक्तिमार्गे पृष्टे ते वस्त्रदर्शनपक्षपातं ब्रुवाणाः सत्यमार्गजिज्ञासयैकी क्रियमाणाः षण्मासीमवधीकृत्य श्रीशारदाराधनतत्पराः कस्या अपि निशः 25 शेषे जागर्षीति व्याहृतिपूर्वमुत्थाप्य सा नृपं
१०४. श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥ (अथवा-ध्यातव्यं पदमक्षयम् ) श्लोकमिमं राज्ञे दर्शनेभ्यश्च समादिश्य श्रीभारती तिरोदधे। । १०५. अहिंसालक्षणो धर्मो मान्या देवी च भारती । ध्यानेन मुक्तिमानोति सर्वदर्शनिनां मतम् ।।
-इति "युग्मश्लोकं निर्माय नृपाय निरपायनिर्णयं ते" प्राहुः। 1D शोभन' नास्ति। * इत आरभ्य प्रकरणसमाप्तिपर्यन्ताः पंक्तयः Pa. आदर्श नोपलभ्यन्ते । । एतच्चिद्वान्तर्गतं कथनं D पुस्तके नास्ति । B आदर्श इदं पद्यं पृष्ठस्य पार्श्वभागे लिखितमुपलभ्यते; ADP मूल एव। | एतत्कथनं Pb आदर्श एवं लभ्यम् । एतत्प्रकरणमत्र AD आदर्श नोपलब्धम् । तत्र तु इतः पूर्वमेव प्रकरण ४५-४६ योरन्तराले संक्षेपेण लिखितं लभ्यते । 2 Pa वास्तव्यो। 3 Pa पुरलोके। 4 Pa आरक्षकनरैः। 5 कोष्ठकगतं वाक्यं A आदर्श लभ्यते। 6 AD ममुं । 7 P तिरोधत्ते। 8 PPa सरस्वती। 9 Pa मुक्तिमार्गः स्यादेवं दर्श। 10 AD श्लोकयुग्म। 11D 'ते' नास्ति ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org