SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ TAT प्रबन्धचिन्तामणिः। [द्वितीयः _ 'क सार्थः पुनरीदृशः' इति वाक्यान्तं एव स माघपण्डितः पञ्चत्वमवा,प । प्रातस्तं वृत्तान्तमवगम्य श्रीभोजेन श्रीमालेषु सजातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति भिल्लमाल इति तजाते म निर्ममे । ॥ इति श्रीमाघपण्डितप्रबन्धः॥ 5 ५७) पुरा समृद्धिविशालायां विशालायां पुरि मध्यदेशजन्मा सांकाश्यागोत्रः सर्वदेवनार्मा द्विजो निवसन् जैनदर्शनसंसर्गात्मायः प्रशान्तमिथ्यात्वो धनपाल-शोभनाभिधानपुत्रद्वयेनान्वितः कदाचिदागताञ् श्रीवर्द्धमानसूरीन् गुणानुरागान्निजोपाश्रये निवास्य निद्वन्द्रिभक्त्या परितोषितान् सर्वज्ञपुत्रकानिति धिया, तिरोहितं निजपूर्वजनिधिं पृच्छंस्तैर्वचनच्छतेरेना विभागं याचितः। 'सङ्केतनिवेदनाल्लब्धंनिधिस्तदर्दू यच्छंस्तैः पुत्रद्रयादई याचितो' ज्यायसा धनपालेन 10 मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः, कनीयसि शोभने कृपापरः स्वप्रति ज्ञाभङ्गपातकं तीर्थेषु क्षालयितुमिच्छुः प्रति तीर्थ प्रतस्थे । अथ पितृभक्तेन शोभननाम्ना लघुपुत्रेण तं तदाग्रहान्निषिद्ध्य पितुः प्रतिज्ञा प्रतिपालयितुमुपात्तव्रतः वयं तान् गुरूननुससार । अभ्यस्तसमस्तविद्यास्थानेन धनपालेन श्रीभोजप्रसादसम्प्राप्तसमस्तपण्डितप्रष्टप्रतिष्ठेन निजसहोदरामर्षभावाद् द्वादशाब्दी यावत्स्वदेशे निषिद्धजैनदर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुवा15 हृयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूना धारायां प्रविशन पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहासमा'गर्दभदन्त भदन्त ! नमस्ते' इति प्रोक्त; 'कपिवृषणास्य वयस्य! सुखं ते' [इति प्रत्युत्तरयांचके।' ततश्चमत्कृतो धनपालो मया नर्मणापि नमस्ते इत्युक्तम् , अनेन तु वयस्य सुखं ते] इत्युच्चरता वचनचातुर्यान्निर्जितोऽस्मीति । तत् 'कस्यातिथयो यूयमिति धनपालस्यालापैः भवत एवातिथयो 20 वयमि'ति शोभनमुनेर्वाचमाकर्ण्य, बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः। स्वयं सौधे समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहारसेवापरैनिषिद्धः । बलाद्दोषहेतुं पृच्छन् ८५. भजेन्माधुकरी वृत्तिं मुनिर्लेच्छकुलादपि । एकानं नैव भुञ्जीत बृहस्पतिसमादपि ॥ तथा च, जैनसमये दशवैकालिके25 ८६. महुकारसमा बुद्धा जे भवन्ति अणिस्सिया । नाणापिण्डरया दन्ता तेण वुचन्ति साहुणो ॥ । इति स्वसमयपरसमयाभ्यां निषिद्धं कल्पितमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति तचरित्रचित्रितमनास्तूष्णीकमुत्थाय सौधे" मजनारम्भे गोचरचर्यया समागतं तन्मुनिद्वन्द्वमवलोक्याऽसिद्धेऽन्नपाके तद्ब्राह्मण्योपढौकिते दनि मुनिभ्यां व्यतीतकियदिनमेतदिति पृच्छयमाने, धनपालः 'किमत्र पूतराः सन्ती'ति सोपहासमभिदधानः, व्यतीतदिनद्वयमेतदिति ब्राह्मण्या __1 इदं वाक्यं D पुस्तके न विद्यते। 2 B वाक्यानन्तरं; P वाक्यसमकालं। 3 P स्वजा। 4 D तज्ज्ञातं । 5 D काश्यपगोत्रः, B नास्ति। 6P गंगाधरो नाम । 7 P विहायान्यत्र 'अभिधान' नास्ति । द्विदण्डान्तर्गतः पाठः Pa आदर्शऽनुपलभ्यः। 8 P०लब्धशेवधि। 9D प्रकृष्ट। 10 D गुरुपुरुषेषु। कोष्टकान्तर्गतः पाठः A Pa प्रत्यन्तरे नास्ति । एतत्पाठस्थाने B प्रत्यन्तरे 'शोभनमुनेर्वचसान्तश्चमत्कृतः' एतादृशः पाठः। 11 D इत्युक्ते। 12 P ऽसीत्यचिन्तयत् । 13 Pa नीचकु०। 14 P Pa अकल्पितः। 15 D सौधमाप। 16 P मुनियुगल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002519
Book TitlePrabandha Chintamani
Original Sutra AuthorMerutungacharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy